कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · क्षत्रियप्रकाण्डः (4/4)

अजन्यमस्त्री चोत्पात उपसर्गोऽथ कश्मलम् ।मूर्छा मोहोथ विजयोऽभ्यवस्कन्दनमित्यपि ॥ ३६१ ॥
1.6.361 · p. 129
अनुष्टुप्
जयोभ्यासादनं च स्यादप्यथो वैरशोधनम् ।वैरशुद्धिः प्रतीकारः प्रतिकारस्ततः पुनः ॥ ३६२ ॥
1.6.362 · p. 129
अनुष्टुप्
पराजयो रणे भङ्गो हारिर्हारी स्त्रियामिमे ।कक्षास्पर्द्धा प्रतिस्पर्द्धा डम्बरे डिम्बविप्लवौ ॥ ३६४ ॥
1.6.364 · p. 129
अनुष्टुप्
परापर्यभितो भूतो गतो भग्नः पलायितः ।पराजितेऽपि नष्टः स्याद् गृहीतदिक् तिरोहितः ॥ ३६५ ॥
1.6.365 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
कांदिशीको भयत्रस्तोऽप्यथ भेलस्तु कातरः ।पलङ्कटश्च हरिणपर्यायहृदयार्थकः ॥ ३६६ ॥
1.6.366 · p. 129
अनुष्टुप्
अधीरः कातरो भीरुर्भीलुश्चकित इत्यपि ।दरितश्चकिलो भीतस्त्रस्तस्त्रसित इत्यथ ॥ ३६७ ॥
1.6.367 · p. 129
अनुष्टुप्
जिताहवो जितकाशी पराभूते पराजितः ।विजितो निर्जितश्चाथ प्रस्कन्नपतितौ त्रिषु ॥ ३६८ ॥
1.6.368 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
कर्त्तप्रमाथ सन्तापनिवापच्छेदसंज्ञयाः ।कदव्यापादनिर्ग्रन्थनिस्तर्हविशसा अपि ॥ ३६९ ॥
1.6.369 · p. 130
अनुष्टुप्
वर्द्धप्रमापप्रमथप्रवासप्रशमक्षणाः ।पुत्रश्च कल्पनिर्यातनिषूदप्रमथास्ततः ॥ ३७० ॥
1.6.370 · p. 130
अनुष्टुप्
अपासोद्वासनिर्वापा नमेभ्यः क्राथमारकौ ।हिंसानिशुम्भः संज्ञप्तिरालम्भः परिवर्जनम् ॥ ३७१ ॥
1.6.371 · p. 130
अनुष्टुप्
विसारश्चापि विसरनिकारनिवहा अपि ।तद्वन्निस्तर्हनिर्वापविकारेभ्यो णमित्यपि ॥ ३७२ ॥
1.6.372 · p. 130
अनुष्टुप्
वधोविनिभ्यां वापः स्याद्विसरः प्रतिघातनम् ।निवाहोऽपि स्त्रियां मारिः सर्वगो मरको स्त्रियाम् ॥ ३७३ ॥
1.6.373 · p. 130
अनुष्टुप्
अपि स्यात्तद्वत्प्रलयो दिष्टान्तोऽप्यत्ययोऽपि च ।नाशः स्त्रियां पञ्चता स्यान्निधनं षण् द्वयोः पुनः ॥ ३७४ ॥
1.6.374 · p. 130
अनुष्टुप्
बहुभिः प्रबले शत्रौ प्रमत्ते सति हिंसनम् ।धाटी तु धातकं डाकश्चौराणामभिसारके ॥ ३७५ ॥
1.6.375 · p. 130
अनुष्टुप्
स्त्रियां लुण्ठा च लुण्ठिश्च लूषिर्लूषी च लुण्ठनम् ।भूमिपर्यायलाभार्थः सौप्तिकं रात्रिमारणम् ॥ ३७६ ॥
1.6.376 · p. 130
अनुष्टुप्
विशरणं मारणं हिंसा दिष्टान्तः प्रलयो वधः ।स्यादाक्रन्दः पिञ्जरम्भौ प्रतिघः परिघः पुनः ॥ ३७७ ॥
1.6.377 · p. 131
metre not recognisednearly अनुष्टुप्
परिसमाविसंभ्योऽपि घातो घातस्ततः पुनः ।संग्रामभयदा भूमिर्वीराशंसनमित्यपि ॥ ३७८ ॥
1.6.378 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
उत्क्रान्त्यवस्थो मठर उपधूपित इत्यपि ।म्रियमाणस्य यः श्वासः स हराहर उच्यते ॥ ३७९ ॥
1.6.379 · p. 131
अनुष्टुप्
परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः ।अपि प्रमीतस्त्रिष्वेते चित्यचैत्ये तु न द्वयोः ॥ ३८० ॥
1.6.380 · p. 131
अनुष्टुप्
चितिः खाटिश्चिता चित्या स्त्रियां ना चूडकः कटः ।शिरोहीने कबन्धोऽस्त्री रुण्डो देहे क्रियान्विते ॥ ३८१ ॥
1.6.381 · p. 131
अनुष्टुप्
स्यात् श्मशानं पितृवनं वीरभूः करवीरकम् ।अन्तपर्यायशय्यार्थपर्यायं च शतानकम् ॥ ३८२ ॥
1.6.382 · p. 131
अनुष्टुप्
रुद्रपर्याय आक्रीडे संस्क्रियासत्क्रिये समे ।शवपर्यायवेश्मार्थं दाहतः सरसोऽर्थकः ॥ ३८३ ॥
1.6.383 · p. 131
अनुष्टुप्
स्त्रियां स्यादुपकार्याथ कुणपः क्षितिवर्द्धनः ।पञ्चावस्थः कटस्थालं शवोऽस्त्री प्रग्रहोऽपि च ॥ ३८४ ॥
1.6.384 · p. 131
अनुष्टुप्
उपग्रहः करमरी ग्राहो वन्दी च बन्धने ।प्राणोऽसुरसवः प्राणाः पुंसि भूम्न्येकभाषणे ॥ ३८५ ॥
1.6.385 · p. 131
अनुष्टुप्
पुरुषायुषकं यावदायुः स्याद्द्विगुणं ततः ।द्व्यायुषं त्रिगुणं तद्वत्त्र्यायुषं च तिरायुषम् ॥ ३८६ ॥
1.6.386 · p. 132
अनुष्टुप्
जीवोऽसुधारणं चाथ क्लीबे द्वे आयुरायुषी ।पुंसि जीवितकालः स्याज्जीवातुर्जीवनौषधम् ॥ ३८७ ॥
1.6.387 · p. 132
अनुष्टुप्
कल्पद्रौ केशवकृते फलिते नामभिः किल ।भूमिस्कन्धे क्षत्रकाण्डः पञ्चमः सिद्धिमागतः ॥ ३८८ ॥
1.6.388 · p. 132
अनुष्टुप्