कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शैक्ष

śaikṣaपुं · masc.

In 11 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.28 · p. 7
शिष्यो विनेयोऽन्तेवासी शैक्षः प्राथमकल्पिकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.20
छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.400 · p. 46
अध्यापक उपाध्यायो व्याख्या विवरणं स्मृतम् ।शिष्यान्तेवासिनौ छात्रः शैक्षः प्राथमकल्पिकः ॥ ४०० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.53 · p. 74
प्रेक्षावान्विबुधश्चोग्रः प्रौढः प्राज्ञो विदन्नथ ।छात्रान्तेवासिनौ शिष्ये शैक्षः प्राथमकल्पिकः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.24 · p. 234
पारायणं वर्त्तयेद्यः स पारायणिकस्त्रिषु ।येनाधीतमधीती स शैक्षः प्राथमकल्पिकः ॥ २४ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.119 · p. 31
शिष्यश्छात्रो विनेयोऽन्तेवासी शैक्षश्च दीक्षितः ।आस्तिकः श्रावकः श्राद्धः स्याच्छ्रद्धालुरुपासकः ॥ ११९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.54 · p. 8
अन्तेवासी विनेयश्च शैक्षः प्राथमकल्पिकः ।छात्रोऽन्तेषच्च विद्यार्थी शिष्यश्च शिष्यवाचकाः ॥ ५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.21 · p. 112
यज्ञान्तस्नानकृद्यस्तु सुत्वा सुस्नातकोऽपि च ।शिष्यान्तेवासिनौ छात्रे शैक्षाः प्राथमकल्पिकाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि प्रथमः काण्डः Śabdaratnākara 1.14 · p. 176
शिष्यः शिक्षु-शैक्षो तालव्याद्याश्छात्रे च तद्भिदि ।व्रातादाने परिव्रज्या प्रव्रज्याऽप्यभिधीयते ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शै (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1209 · p. 148
छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ।एकब्रह्मव्रता एते मिथः सब्रह्मचारिणः ॥ १२०९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.24 · p. 85
एकतीर्थी सतीर्थ्यैकगुरू सब्रह्मचार्यपि ।धर्मभ्राता सहाध्यायी शैक्षाः प्राथमकल्पिकाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.