All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
1,012 verses · 6,994 words tagged · 1,188 marked doubtful (dashed)
प्रथमः काण्डः
वाचनाचार्यसाधुसुन्दरगणिविरचितः शब्दरत्नाकरः
ध्यात्वाऽर्हतो गुरून् प्राज्ञान् वाग्देवीमपि भक्तितः ।शब्दरत्नाकरं कुर्वे शब्दभेदार्थसंग्रहम् ॥ १ ॥
1.1 · p. 175
अनुष्टुप्
अर्हद्देवनृतिर्यञ्चो नैरेयाः साङ्गकाः समाः ।अव्ययाश्च क्रमोऽत्रायं लक्ष्यतां सुखलब्धये ॥ २ ॥
1.2 · p. 175
अनुष्टुप्
भवेज्जिनेऽर्हन्नर्हन्तः सार्वः सर्वीय इत्यपि ।तीर्थङ्करस्तीर्थकरः परमेष्ठी ठकारयुक् ॥ ३ ॥
1.3 · p. 175
अनुष्टुप्
वृषभर्षभौ नाभेये, शंभवे संभवोऽपि च ।एकादशजिने श्रेयान्, श्रेयांसो, द्वादशार्हति ॥ ४ ॥
1.4 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भौ (wrong syllable)
वसुपूज्य-वासुपूज्यावनन्तोऽनन्तजिन्मतः ।विंशे जिने मुनिस्तद्वद् मुनिसुव्रतसुव्रतौ ॥ ५ ॥
1.5 · p. 175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज्य (wrong syllable)
अरिष्टनेमौ नेमिश्च नेमी नन्तोऽपि कथ्यते ।श्रीपार्श्वः पार्श्वनाथश्च, वामेये, चरमेऽर्हति ॥ ६ ॥
1.6 · p. 176
अनुष्टुप्
महावीरः स वीरश्च, तुर्यार्हन्तस्य वप्तरि ।दन्त्यादिः संवरः, कुन्थुबप्पे शूरश्च सुरयुक् ॥ ७ ॥
1.7 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 सु (wrong syllable)
मरुदेवा मरुदेव्यप्याद्यार्हन्मातरि स्मृता ।तालव्यमध्या त्रिशला, पञ्चमार्हदुपासके ॥ ८ ॥
1.8 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable)
त्र्युकारस्तुम्बुरुश्चक्रैश्वर्यामप्रतिचक्रिका ।अजिताऽजितबलायां, सुतारा तु सुतारका ॥ ९ ॥
1.9 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ब (wrong syllable)
निमीश्वरोऽर्हद्विशेषे द्वीकारोऽथ कृतार्घके ।तुर्यहल्, शूरदेवस्तु दन्त्यतालव्यसादिमः ॥ १० ॥
1.10 · p. 176
अनुष्टुप्
संवरो दन्त्यसादिः स्यात्, भद्रकृद्भद्र उच्यते ।मोक्षे श्रेयः शिवं तालव्यादी, निःश्रेयसं पुनः ॥ ११ ॥
1.11 · p. 176
अनुष्टुप्
मध्यतालव्ययुक्, साधौ साधन्तः साधयन्तकः ।रिष्यृषी यति-यतिनौ श्रमण-श्रवणौ तथा ॥ १२ ॥
1.12 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
मुनिस्वे तप-तपसी अदन्त-सान्तके स्मृते ।प्रायश्चित्तं प्रायश्चित्तिः पापसंशोधके तपे ॥ १३ ॥
1.13 · p. 176
metre not recognised
शिष्यः शिक्षु-शैक्षो तालव्याद्याश्छात्रे च तद्भिदि ।व्रातादाने परिव्रज्या प्रव्रज्याऽप्यभिधीयते ॥ १४ ॥
1.14 · p. 176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शै (wrong syllable)
क्षपणे नग्न-नग्नाटौ श्रमणः श्रवणोऽपि च ।क्षेमे मद्रं भद्र-भन्द्रे प्रशस्तं शस्तमित्यपि ॥ १५ ॥
1.15 · p. 176
अनुष्टुप्
भावुकं भविकं भव्यं शिवं च श्वोवसीयसम् ।श्रेयः स्वःश्रेयसं तालव्यादयः कुशलं पुनः ॥ १६ ॥
1.16 · p. 176
अनुष्टुप्
मध्यतालव्यकं प्रोक्तं, सुभं तालव्य-दन्त्ययुक् ।मङ्गल्यमपि माङ्गल्यं मङ्गलं च तथा स्मृतम् ॥ १७ ॥
1.17 · p. 176
अनुष्टुप्