छात्र
chātraपुं · masc.In 12 kośas: 16 synonym verses, 1 as a nānārtha head word.
छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ।
अनुष्टुप्
genderपुंmasc.
अध्यापक उपाध्यायो व्याख्या विवरणं स्मृतम् ।शिष्यान्तेवासिनौ छात्रः शैक्षः प्राथमकल्पिकः ॥ ४०० ॥
अनुष्टुप्
genderपुंmasc.
प्रेक्षावान्विबुधश्चोग्रः प्रौढः प्राज्ञो विदन्नथ ।छात्रान्तेवासिनौ शिष्ये शैक्षः प्राथमकल्पिकः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
पैतिकं घृतवर्णं तदपरं पुत्तिकाकृतम् ।पौत्तिकं स्यात् सारघं तु छात्रं तदपि पिङ्गलम् ॥ ६१५ ॥
अनुष्टुप्
genderक्लीneut.
छात्रान्तेवासिनौ शिष्यो विनेयश्च समार्थकः ।शिष्योपाध्याययोर्द्वंद्वे शैष्योपाध्यायिका स्त्रियाम् ।निशाध्ययनमस्यास्ति सोढं नैशः स नैशिकः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
भ्रामरं श्वेतवर्णं स्याच्चतस्रो मधुजातयः ।मधूच्छिष्टं तु मयणं सिक्थं चात्र नपुंसके ।आर्घ्यं छात्रं तथौद्दालं मधुभेदाः परेऽपि च ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.
यावानिति समुच्चयो कश्चिद्यस्त्रान्तः शब्दः स नपुंसके बोद्धव्यः । पुत्रमन्त्रश्वित्रशब्दान् वर्जयित्वेत्यर्थः । यथा । सूत्रं शस्त्रं शास्त्रं मित्रं पत्रं पवित्रं च । गात्रं पोत्रं पात्रं दात्रं सत्रं परित्रं चेत्यादि । अयं पुत्रः सुतः । अयं मन्त्रो होमवाच्यो वेदश्च । हि शब्दोऽनुक्तसमुच्चयार्थः ।तेन छत्रछात्रविष्णुमित्रादीनां पुंस्त्वप्राप्तेः सिद्धिः । अयं छत्रो नर्त्तकः आतपवारणवाचकस्य छत्रशब्दस्य नपुंसकतैव । इदं छत्रं वर्षातपवारणम् । अयं छत्रोऽध्येता । अयं विष्णुमित्रः कश्चित्पुरुषः ।यात्रामात्राभस्त्रादंष्ट्रा विद्यात् स्त्रियां वरत्रा च ।इदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्चैव ॥ १२ ॥
metre not recognised
genderपुंmasc.
उपाध्यायोऽध्यापनकृत् पाठकोऽध्यापको गुरुः ।शिष्यः छात्रः पार्श्ववासी पवित्रः प्रयतः शुचिः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
शिष्यश्छात्रो विनेयोऽन्तेवासी शैक्षश्च दीक्षितः ।आस्तिकः श्रावकः श्राद्धः स्याच्छ्रद्धालुरुपासकः ॥ ११९ ॥
अनुष्टुप्
genderपुंmasc.
अन्तेवासी विनेयश्च शैक्षः प्राथमकल्पिकः ।छात्रोऽन्तेषच्च विद्यार्थी शिष्यश्च शिष्यवाचकाः ॥ ५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ।एकब्रह्मव्रता एते मिथः सब्रह्मचारिणः ॥ १२०९ ॥
अनुष्टुप्
genderपुंmasc.
ते पञ्चधा वणिग्भिक्षुच्छात्रलिङ्गिकृषीवलाः ।आगोऽपराध उद्दानं बन्धनं दण्डनं दमः ॥ १२८७ ॥
अनुष्टुप्
genderपुंmasc.
अर्घ्यं तु पूज्यमापाण्डु मनाक् तिक्तं सवालकम् ।छात्रं त्वेकान्तमधुरं सर्वार्घ्यं राजसेवितम् ॥ १८४ ॥
अनुष्टुप्
genderक्लीneut.
छात्रस्तु शिष्यो मोकः प्राडुपज्ञा ज्ञानमादिमम् ।समौ सिद्धान्तराद्धान्तौ ज्ञात्वारंभ उपक्रमः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
यथार्हवर्णो मंत्रज्ञो भीमरो गूढपूरुषः ।चारोऽप्यथ वणिग्भिक्षुश्छात्रो लिंगी कृषीवलः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
औद्दालकं तु शालाकं विषजिन्मधुराम्लकम् ।छात्रं सर्वौघमत्यर्थस्वाद्विमा मधुजातयः ॥ १३६ ॥
अनुष्टुप्
genderक्लीneut.