कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

देवाधिदेवविभागः

अथ प्रथमो देवाधिदेवविभागः ।

* अर्हन्नामानि *

अर्हन् जिनस्त्रिकालज्ञः परमेष्ठी जगत्प्रभुः ।स्वयम्भूर्भगवान् शम्भुस्तीर्थङ्करो जिनेश्वरः ॥ ८ ॥
2.8 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
सर्वज्ञः सर्वदर्शी च स्याद्वादी केवलीश्वरः ।आप्तो देवाधिदेवो वै वीतरागोऽप्यधीश्वरः ॥ ९ ॥
2.9 · p. 3
अनुष्टुप्
बोधिदोऽभयदो पारगतश्च पुरुषोत्तमः ।सार्वस्तीर्थाधिपश्चेमाः संज्ञाः सन्तु शिवप्रदाः ॥ १० ॥
2.10 · p. 3
अनुष्टुप्

* वर्तमानचतुर्विंशतितीर्थङ्कराणां नामानि *

श्रीऋषभोऽजितो देवः सम्भवश्चाभिनन्दनः ।पञ्चमः सुमतिस्वामी षष्ठः पद्मप्रभः प्रभुः ॥ ११ ॥
2.11 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable)
सुपार्श्वः सप्तमः स्वामी चन्द्रप्रभजिनोऽष्टमः ।सुविधिः शीतलस्वामी श्रेयांसो वासुपूज्यकः ॥ १२ ॥
2.12 · p. 3
अनुष्टुप्
विमलोऽनन्तधर्मौ च शान्तिः कुन्थुः त्वरो जिनः ।मल्लिनाथो जिनेन्द्रश्च श्रीमुनिसुव्रतो नमिः ॥ १३ ॥
2.13 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
नेमिः पार्श्वो महावीरो भवादवतु वः सदा ।एतस्यामवसर्पिण्यां चतुर्विशतिरर्हताम् ॥ १४ ॥
2.14 · p. 3
अनुष्टुप्

* गणधरनामानि *

श्रीवीरस्येन्द्रभूतिः श्री अग्निभूतिर्द्वितीयकः ।वायुभूतिरिति भ्रातृत्रिकं गौतमगोत्रपम् ॥ १५ ॥
2.15 · p. 3
अनुष्टुप्
व्यक्तः सुधर्म मण्डितमौर्यपुत्रा अकम्पितः ।अचलभ्रातृमेतार्यप्रभासा गणधारिणः ॥ १६ ॥
2.16 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ण्डि (wrong syllable)

[युग्मम्]

* श्रुतकेवलिनामानि *

अन्तिमः केवली जम्बूस्वामी श्रीवीरशासने ।जातोऽथ प्रभवस्वामी शय्यम्भवाभिधस्तथा ॥ १७ ॥
2.17 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्भ (wrong syllable)
यशोभद्रश्च सम्भूतिविजयो भद्रबाहुकः ।स्थूलभद्रोऽन्तिमश्चैते श्रुतकेवलिनो हि षट् ॥ १८ ॥
2.18 · p. 4
अनुष्टुप्

* दशपूर्वधरनामानि *

महागिरिः सुहस्ती च सूरिः श्रीगुणसुन्दरः ।श्यामार्यः स्कन्दिलार्यश्चरेवतीमित्रसूरिपः ॥ १९ ॥
2.19 · p. 4
अनुष्टुप्
श्रीधर्मा भद्रगुप्तश्च श्रीगुप्तो वज्रसंज्ञकः ।आर्याः सूरीश्वरा जाता दशैते दशपूर्विणः ॥ २० ॥
2.20 · p. 4
अनुष्टुप्

* तीर्थङ्कराणां पितृनामानि *

नाभिराड्जितशत्रुश्च जितारिः संवरो नृपः ।मेघो धरो धराधीशः प्रतिष्ठोऽप्रतिमो नृपः ॥ २१ ॥
2.21 · p. 4
अनुष्टुप्
महासेनो महाराजा सुग्रीवो वसुधाधिपः ।दृढरथो नृपो विष्णुर्वसुपूज्यः प्रजापतिः ॥ २२ ॥
2.22 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
कृतवर्मा नृपो सिंहसेनो भानुर्नरेश्वरः ।विश्वसेनस्तथा सूरः सुदर्शनश्च कुम्भराट् ॥ २३ ॥
2.23 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्श (wrong syllable)
सुमित्रो विजयो राजा समुद्रविजयः क्रमात् ।अश्वसेनश्च सिद्धार्थः सन्त्येते पितरोऽर्हताम् ॥ २४ ॥
2.24 · p. 5
अनुष्टुप्

* तीर्थङ्कराणां मातृनामानि *

प्रथमा मरुदेवाऽम्बा द्वितीया विजयाह्वया ।ततः सेना च सिद्धार्था सुमाता मङ्गला तथा ॥ २५ ॥
2.25 · p. 5
अनुष्टुप्
सुसीमा जननी पृथ्वी माता च लक्ष्मणाऽमला ।रामा नन्दा प्रसूर्विष्णुर्जया श्यामाभिधा ततः ॥ २६ ॥
2.26 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
सुयशाः सुव्रता माता तथाऽचिराभिधा ततः ।जनित्री श्रीश्च देवी च माता प्रभावती तथा ॥ २७ ॥
2.27 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 चि (wrong syllable); pāda 4, syllable 3 प्र (wrong syllable)
पद्मा वप्रा शिवा वामा सुमाता त्रिशलाऽन्तिमा ।श्रीतीर्थङ्करमातॄणां नामान्युक्तानि प्रक्रमात् ॥ २८ ॥
2.28 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)

* तीर्थङ्कराणां यक्ष [शासनदेव] नामानि *

गोमुखश्च महायक्षस्रिमुखो यक्षराट् ततः ।तुम्बुरुः कुसुमो यक्षो मातङ्गोऽविजयो जितः ॥ २९ ॥
2.29 · p. 5
अनुष्टुप्
ब्रह्मा यक्षेट् कुमारः षण्मुखः पातालकिन्नरौ ।यक्षौ गरुडगन्धर्वौ यक्षेन्द्रश्च कुबेरकः ॥ ३० ॥
2.30 · p. 5
अनुष्टुप्
वरुणो भृकुटिर्यक्षो गोमेधः पार्श्वयक्षपः ।मातङ्गश्चार्हतां भक्ताः क्रमात् शासनरक्षकाः ॥ ३१ ॥
2.31 · p. 5
अनुष्टुप्

* तीर्थङ्कराणां यक्षिणी [शासनदेवी] नामानि *

आद्या चक्रेश्वरी देवी तथाऽजितबला ततः ।दुरितारिश्च काली वै महाकाली च यक्षिणी ॥ ३२ ॥
2.32 · p. 6
अनुष्टुप्
श्यामा देवी तथा शान्ता भृकुटिश्च सुतारका ।अशोका मानवी देवी चण्डा च विदिताऽङ्कुशा ॥ ३३ ॥
2.33 · p. 6
अनुष्टुप्
कन्दर्पा चैव निर्वाणी बला देवी च धारिणी ।वैरोट्या नरदत्ता वै गान्धारी चाम्बिका सुरी ॥ ३४ ॥
2.34 · p. 6
अनुष्टुप्
देवी पद्मावती चैव सुरी सिद्धायिकाऽन्तिमा ।क्रमेणैता बुधैर्बोध्या जैनशासनरक्षिकाः ॥ ३५ ॥
2.35 · p. 6
अनुष्टुप्

* तीर्थङ्कराणां लाञ्छनानि *

वृषभो वारणो वाजी कपिः क्रौञ्चाऽब्जस्वस्तिकाः ।चन्द्रमाः मकराङ्कः श्रीवत्सः खड्गी च सैरिभः ॥ ३६ ॥
2.36 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ब्ज (wrong syllable)
शूकरो श्येनको वज्रं मृगः छागः सुलाञ्छनम् ।नन्द्यावर्तश्च कुम्भश्च कूर्मो नीलोत्पलं ततः ॥ ३७ ॥
2.37 · p. 6
अनुष्टुप्
शङ्खः सर्पश्च सिंहश्च क्रमतो लाञ्छनानि च ।तत् तत् तीर्थकृतां चैतच्चिह्नानि ज्ञापकान्यपि ॥ ३८ ॥
2.38 · p. 6
अनुष्टुप्

* गतचतुर्विंशतितीर्थङ्कराणां नामानि *

जिनेन्द्रः केवलज्ञानी निर्वाणी सागरस्ततः ।महायशाश्चतुर्थश्च पञ्चमो विमलाभिधः ॥ ३९ ॥
2.39 · p. 6
अनुष्टुप्
ततः सर्वानुभूति च श्रीधरो दत्ततीर्थपः ।दामोदरः सुतेजाश्च स्वामी च मुनिसुव्रतः ॥ ४० ॥
2.40 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ति (wrong syllable)
तीर्थकृत् सुमतिस्वामी विभुः शिवगतिस्तथा ।अस्तागस्तीर्थकृद्देवो निमीश्वरस्ततोऽनिलः ॥ ४१ ॥
2.41 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्व (wrong syllable)
यशोधरः कृतार्थश्च तीर्थङ्करो जिनेश्वरः ।ततः शुद्धमतिर्देवः शिवकरस्ततः परम् ॥ ४२ ॥
2.42 · p. 7
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable); pāda 4, syllable 3 क (wrong syllable)
स्यन्दनः सम्प्रतिश्चेति चतुर्विंशतिरर्हताम् ।उत्सर्पिण्यामतीतायां बुधैर्बोध्या स्तुताः सुरैः ॥ ४३ ॥
2.43 · p. 7
अनुष्टुप्

* अनागतचतुर्विंशतितीर्थङ्कराणां नामानि *

तीर्थकृत् पद्मनाभश्च शूरदेवः सुपार्श्वकः ।स्वयंप्रभस्ततः सर्वानुभूतिः परमेश्वरः ॥ ४४ ॥
2.44 · p. 7
अनुष्टुप्
देवश्रुतोदयौ देवौ पेढालः पोट्टिलस्तथा ।जिनेशः शतकीर्तिश्च श्रीसुव्रतो जिनोऽममः ॥ ४५ ॥
2.45 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व्र (wrong syllable)
निष्कषायश्च निर्मायो निष्पुलाकश्च निर्ममः ।चित्रगुप्तः समाधिश्च संवरो वै यशोधरः ॥ ४६ ॥
2.46 · p. 7
अनुष्टुप्
विजयो मल्लदेवौ चाऽनन्तवीर्यश्च भद्रकृत् ।उत्सर्पिण्यान्तु भाविन्यां चतुर्विंशतिरर्हताम् ॥ ४७ ॥
2.47 · p. 7
अनुष्टुप्

* मोक्षस्य नामानि *

महानन्दोऽमृतं मुक्तिः मोक्षो ब्रह्म महोदयः ।श्रेयो निःश्रेयसं सिद्धिः कैवल्यमपुनर्भवः ॥ ४८ ॥
2.48 · p. 7
अनुष्टुप्
निर्वाणं निर्वृतिः शान्तिः सर्वदुःखक्षयः शिवः ।निर्याणमपवर्गश्चाऽक्षरं चेति शिवाभिधाः ॥ ४९ ॥
2.49 · p. 8
अनुष्टुप्

* मोक्षसाधनम् *

ज्ञानश्रद्धानचारित्रयोगो मोक्षस्य साधनम् ।मौनं चाऽभाषणं प्रोक्तं धर्मोपदेशको गुरुः ॥ ५० ॥
2.50 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)

* मुनिनामानि *

वाचंयमोऽनगारश्च निर्ग्रन्थः श्रमणो मुनिः ।ऋषिर्यतिर्यती साधुः मुमुक्षुर्भिक्षुकश्च सन् ॥ ५१ ॥
2.51 · p. 8
अनुष्टुप्
त्यागी योगी वियोगी च क्षमी शमी दमी यमी ।संयमी माहनो मौनी चारित्री च महाव्रती ॥ ५२ ॥
2.52 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)

* आचार्यादिपदस्थगुरुनामानि *

अनुयोगकृदाऽऽचार्य उपाध्यायश्च पाठकः ।अनूचानः प्रवचने साङ्गेऽधीती गणिः स च ॥ ५३ ॥
2.53 · p. 8
अनुष्टुप्

* शिष्यनामानि *

अन्तेवासी विनेयश्च शैक्षः प्राथमकल्पिकः ।छात्रोऽन्तेषच्च विद्यार्थी शिष्यश्च शिष्यवाचकाः ॥ ५४ ॥
2.54 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)

* गुरुबन्धुनामानि *

सतीर्थ्याश्चैकगुरवो गुरुभ्रातृप्रवाचकाः ।एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ५५ ॥
2.55 · p. 8
अनुष्टुप्

* गुरुपरम्परारूपसम्प्रदायाभिधा विवेकश्च *

सम्प्रदायस्तथाऽऽम्नायः पारम्पर्यं गुरुक्रमः ।गुरुपरम्परा चाथ विवेकः पृथगात्मता ॥ ५६ ॥
2.56 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)

* दीक्षावाचकाः शब्दाः *

प्रव्रज्या च परिव्रज्या दीक्षाचारित्रसंयमाः ।तपस्या च व्रतादानं संन्यासो निगमस्थितिः ॥ ५७ ॥
2.57 · p. 9
अनुष्टुप्

* योगस्याष्टाङ्गनामानि *

[ योगस्य प्रथमाङ्गरूपं यमपञ्चकम् ]

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं चतुर्थकम् ।स्यादकिञ्चनता चैते पञ्चधाः कीर्त्तिता यमाः ॥ ५८ ॥
2.58 · p. 9
अनुष्टुप्

[ योगस्य द्वितीयाङ्गमयं नियमपञ्चकम् ]

शौचं तथैव संतोषः स्वाध्यायोऽपि तपस्तथा ।देवताप्रणिधानं च पञ्चापि नियमाः मताः ॥ ५९ ॥
2.59 · p. 9
अनुष्टुप्

[ योगस्य तृतीयाङ्गमासनं, चतुर्थाङ्गं प्राणायामः, पञ्चमाङ्गं प्रत्याहारश्च ]

करणमासनं प्राणायामः प्राणयमस्तथा ।श्वासप्रश्वाससंरोधः प्रत्याहारोऽक्षरोधनम् ॥ ६० ॥
2.60 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)

[योगस्य षष्ठाङ्गं धारणा, सप्तमाङ्गं च ध्यानम् ]

क्वचिद्ध्येये तु चित्तस्य स्थिरबन्धो हि धारणा ।ध्यानं तद्विषये चैकप्रत्ययसन्ततिर्मतम् ॥ ६१ ॥
2.61 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)

[ योगस्याष्टमाङ्गं समाधिः ]

समाधिश्च तदेवार्थमात्राभासनरूपकम् ।एवं योगोऽष्टधा प्रोक्तः यमाद्यङ्गाष्टकेन च ॥ ६२ ॥
2.62 · p. 10
अनुष्टुप्

* कल्याणमङ्गलादिशुभनामानि *

श्रेयः श्वःश्रेयसं क्षेमं कुशलं श्वोवसीयसम् ।भावुकं भविकं भव्यं भद्रं मद्रं तथा शुभम् ॥ ६३ ॥
2.63 · p. 10
अनुष्टुप्
प्रशस्तं सुकृतं शस्तं सूनृतं च ततः परम् ।कल्याणं मङ्गलं चैव भद्रं काम्यं तथा शिवम् ॥ ६४ ॥
2.64 · p. 10
अनुष्टुप्