कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विबुध

vibudhaपुं · masc.

In 15 kośas: 13 synonym verses, 3 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.1 · p. 7
स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः ।गौस्त्रिदिवमूर्ध्वलोकः सुरालयस्तत्सदस्त्वमराः ॥ ८७ ॥देवाः सुपर्वसुरनिर्जरदेवतर्भुबर्हिर्मुखानिमिषदैवतनाकिलेखाः ।वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः स्वाहास्वधाक्रतुसुधाभुज आदितेयाः ॥ ८८ ॥गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः ।
आर्या
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.9
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥आदितेया दिविषदो लेखा अदितिनन्दनाः ।आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.4 · p. 1
आदित्यास्त्रिदशाः सुराः सुमनसः स्वर्गौकसो देवता,गीर्वाणा ऋभवोऽमराश्च मरुतो वृन्दारका निर्जराः ।अस्वप्ना विबुधास्त्रिविष्टपसदो लेखाः सुपर्वाण इ-,त्याख्याता अमृताशना अनिमिषा देवास्तथा दैवतम् ॥ ४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.35 · p. 2
त्रिदशा देवता देवास्त्रयस्त्रिंशत्सुराबुधाः ।त्रिविष्टपाश्च विबुधा संज्ञाङ्कानां सदा स्फुटा ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.53 · p. 74
प्रेक्षावान्विबुधश्चोग्रः प्रौढः प्राज्ञो विदन्नथ ।छात्रान्तेवासिनौ शिष्ये शैक्षः प्राथमकल्पिकः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.5 · p. 8
त्रिदशादितेयविबुधान्धसःसदिवोकसो मरभिदो दिवौकसः ।नरि दैवतं क्वचन देवता स्त्रियाम्आधिदैवजे परवदाधिदैविकम् ॥ ५ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.11 · p. 54
शुश्रूषा स्त्री श्रवणं क्लीबे ग्रहणं धारणमूहोऽपोहः ।अर्थज्ञानं सत्त्वज्ञानं बुद्धेरन्ते गदिता हि गुणाः ।धीमा[35a]न्धीरो मनीषी बुध-विबुध-सुधी-सद्-विदद्-वादि-वेदि-प्रज्ञ-प्राज्ञ-प्रबुद्धाः कवितृ-कवयितृ-प्राप्तरूपाभिरूपाः ।ज्ञो मेधावी सुमेधाः कवि-कृतिविदथ व्यक्त-दोषज्ञ-विद्वत्-संख्यावल्लब्धवर्णाः सुधिषण-मतिमत्-सूरिणः कृष्टि-सूरी ॥ ११ ॥
स्रग्धराmetre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.51 · p. 12
वृन्दारका निलिम्पाश्च आदितेयाश्च पूजिलाः ।विबुधा मरुतो दानवारयोऽनिमिषा अपि ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.349 · p. 24
विबुधः सुमना लेखो गीर्वाणो मृतभोजनः ।अस्वप्नोऽग्निमुखो नाकी क्रतुभुग्व्योमयानगः ॥ ३४९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.35 · p. 5
विबुधा देवता देवास्त्रिदशा निर्जराः सुराः ।आदित्या मरुतो लेखा निलिम्पा नाकिनोऽमराः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.67 · p. 11
अमरा निर्जरा देवाः देवता दानवारयः ।गीर्वाणा नाकिनोऽस्वप्नाः मरुतो विबुधाभिधाः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.5 · p. 2
देवाः सुमनसो लेखा निर्जरा अमृतान्धसः ।अमर्त्या ऋभवोऽस्वप्ना विबुधा दानवारयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.76 · p. 10
विबुधामर्त्यदिवौकस्त्रिदशसुपर्वादितेयमरुदृभवः ।षण्डे न देवताः स्युर्नरि च तयोरेव दैवतानि स्युः ॥ ७६ ॥
गीतिः
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास धपादः Dharaṇikośa 18.1.5 · p. 100
संसिद्धिः सहजे सिद्धौ वीरुद्विटपशाखयोः ।विबुधः पण्डिते देवे उत्सेधौ वपुरुन्नती ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1695 · p. 195
विबुधो विदुषि द्वे तु देवेऽथो पुन्नपुंसकम् ।विलग्नं मध्यसंज्ञे स्याच्छरीरावयवे त्रि तु ॥ १६९५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.66 · p. 244
विस्रंभौ स्नेहविश्वासौ विबुधौ सुरपण्डितौ ।विकारौ रोगविकृती विष्किरौ शिखिकुक्कुटौ ॥ ६६ ॥
अनुष्टुप्

विबुध as a meaning in nānārtha verses