कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शौद्धोदनि

śauddhodaniपुं · masc.

In 9 kośas: 9 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.15
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥षडभिज्ञो दशबलोऽद्वयवादी विनायकः ।मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ।गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.85 · p. 11
शौद्धोदनिर्दशबलो बुद्धः शाक्यस्तथागतः सुगतः ।मारजिदद्वयवादी समन्तभद्रो जिनश्च सिद्धार्थः ॥ ८५ ॥
गीतिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव जिनप्रकाण्डः Kalpadrukośa 1.18.6 · p. 368
सर्वार्थसिद्धः संगुप्तो गौतमः कलिशासनः ।शौद्धोदनिः शाक्यमुनिः सिद्धः शास्ता विनायकः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.51 · p. 13
जितारिश्चार्कबन्धुस्तु शाक्यसिंहोऽपि धीप्रजः ।शौद्धोदनिः शाक्यमुनिः शाक्यो राहुलसूरपि ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.7 · p. 1
सुगतः श्रीघनो बुद्धो बोधिसत्त्वस्तथागतः ।द्वयवादी दशबलो जिनः सौ[शौ]द्धोदनिर्मुनिः ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.336 · p. 44
राहुलसूश्च सर्वार्थसिद्धश्च गोतमान्वयः ।शौद्धोदनिश्च शाक्यस्य नामानि दश सन्ति च ॥ ३३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.20 · p. 3
शौद्धदनिश्च सर्वार्थसिद्धः शाक्यमुनिश्च सः ।अर्कबन्धुः श्वेतकेतुः कूर्मकेतुर्महामुनिः ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.40 · p. 5
समन्तभद्रो भगवान्धर्मराजस्तथागतः ।अथ शौद्धोदनिः शाक्यसिंहः सर्वार्थसिद्धकः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.34 · p. 5
मुनीन्द्रः सुगतः शाक्यो मुनिरद्वयवाद्यपि ।शाक्यसिंहस्तु सर्वार्थसिद्धः शौद्धोदनिर्गुरुः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.