कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दशबल

daśabalaपुं · masc.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.237 · p. 14
बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविज्जिनः ।बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः ॥ २३२ ॥पञ्चज्ञानो षडभिज्ञो दशार्हो दशभूमिगः ।चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ २३३ ॥द्वादशाक्षौ दशबलस्त्रिकायः श्रीघनाद्वयौ ।समन्तभद्रः संगुप्तो दयाकूर्चो विनायकः ॥ २३४ ॥मारलोकखजिद्धर्मराजो विज्ञानमातृकः ।महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते त्वमी ॥ २३५ ॥विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः ।काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥ २३६ ॥तथा राहुलसूः सर्वार्थसिद्धो गौतमान्वयः ।मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥ २३७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्त्रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 ड (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.15
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥षडभिज्ञो दशबलोऽद्वयवादी विनायकः ।मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ।गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.85 · p. 11
शौद्धोदनिर्दशबलो बुद्धः शाक्यस्तथागतः सुगतः ।मारजिदद्वयवादी समन्तभद्रो जिनश्च सिद्धार्थः ॥ ८५ ॥
गीतिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव जिनप्रकाण्डः Kalpadrukośa 1.18.5 · p. 368
समन्तभद्रो भगवान् धर्मकालः सुभाषितः ।षडभिज्ञो दशबलो व्योमाभस्तीर्थकृन्मुनिः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.47 · p. 12
बोधिसत्त्वो महाबोधिर्धर्मराजस्त्रिकालवित् ।पञ्चज्ञानो दशबलः षडभिज्ञस्तथागतः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.353 · p. 25
तथागतो दशबलो मायादेवीसुतो मुनिः ।नारदः पर्वतसखः सुरर्षिर्युद्धदर्यकः ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.7 · p. 1
सुगतः श्रीघनो बुद्धो बोधिसत्त्वस्तथागतः ।द्वयवादी दशबलो जिनः सौ[शौ]द्धोदनिर्मुनिः ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.17 · p. 2
षडभिज्ञो धर्मराजोऽद्वयवादी महामुनिः ।असमः खसमो मैत्री बलो दशबलो जिनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.39 · p. 5
सर्वज्ञसुगतदशवलषडभिज्ञमुनीन्द्रशाक्यशास्तारः ।मारजिदद्वयवादिश्रीघनमुनिबुद्धबोधिसत्त्वजिनाः ॥ ३९ ॥
गीतिः
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.33 · p. 5
समन्तभद्रः सर्वज्ञो मारजिल्लोकजिज्जिनः ।षडभिज्ञो दशबलो धर्मराजस्तथागतः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.