कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · जिनप्रकाण्डः

नारकाद्यः प्रकाण्डोऽयं षोडशः सिद्धिमागतः ।

जिनोऽकनिष्ठगो बुद्धः सर्वदर्शी महाबलः ।सम्बुद्धः करुणाकूर्चो मारजिल्लोकजिच्च सः ॥ १ ॥
1.18.1 · p. 368
अनुष्टुप्
दशार्हः श्रीघनस्तापी बहुक्षमगुणाकरौ ।त्रिमूर्तिर्दशभूमीशः खशयो वृद्धवाद्यपि ॥ २ ॥
1.18.2 · p. 368
अनुष्टुप्
महामुखो विश्वबोधो महाबोधिरहंमुनिः ।द्वादशाक्षो वीतरागः श्वेतकेतुर्महामुनिः ॥ ३ ॥
1.18.3 · p. 368
अनुष्टुप्
धर्मचक्रो धर्मराजः सर्वज्ञः सुगतः स्ववित् ।वागाशनिः कृशधनः पञ्चज्ञानस्तथागतः ॥ ४ ॥
1.18.4 · p. 368
अनुष्टुप्
समन्तभद्रो भगवान् धर्मकालः सुभाषितः ।षडभिज्ञो दशबलो व्योमाभस्तीर्थकृन्मुनिः ॥ ५ ॥
1.18.5 · p. 368
अनुष्टुप्
सर्वार्थसिद्धः संगुप्तो गौतमः कलिशासनः ।शौद्धोदनिः शाक्यमुनिः सिद्धः शास्ता विनायकः ॥ ६ ॥
1.18.6 · p. 368
अनुष्टुप्
अर्कबन्धुर्धर्मधातुर्जितारिः केवली वितः ।महाश्रमणश्च पुनर्मुनीन्द्रोऽर्हन्समोऽपि च ॥ ७ ॥
1.18.7 · p. 369
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 म (wrong syllable)
मायादेवीसुतश्चक्री धरेयोपि च बाहुलः ।क्षीणाष्टकर्मा देवाधिदेवः श्रोमो जिनेश्वरः ॥ ८ ॥
1.18.8 · p. 369
अनुष्टुप्
तीर्थंकरस्तीर्थकरस्तापी पारगतश्च सः ।परमेष्ठा वीतरागः स्वयंभूः पुरुषोत्तमः ॥ ९ ॥
1.18.9 · p. 369
अनुष्टुप्
कल्पद्रौ केशवकृते फलिते नामसत्फलैः ।जिनप्रकाण्डः संपूर्णो जातः सप्तदशः शुभः ॥ १० ॥
1.18.10 · p. 369
अनुष्टुप्
कल्पद्रौ केशवकृते फलिते नामसत्फलैः ।प्रकाण्डैः सप्तदशभिर्भूमिस्कन्ध उपस्थितः ॥ ११ ॥
1.18.11 · p. 369
अनुष्टुप्