कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शाक्यसिंह

śākyasiṃhaपुं · masc.

In 8 kośas: 8 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.237 · p. 14
बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविज्जिनः ।बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः ॥ २३२ ॥पञ्चज्ञानो षडभिज्ञो दशार्हो दशभूमिगः ।चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ २३३ ॥द्वादशाक्षौ दशबलस्त्रिकायः श्रीघनाद्वयौ ।समन्तभद्रः संगुप्तो दयाकूर्चो विनायकः ॥ २३४ ॥मारलोकखजिद्धर्मराजो विज्ञानमातृकः ।महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते त्वमी ॥ २३५ ॥विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः ।काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥ २३६ ॥तथा राहुलसूः सर्वार्थसिद्धो गौतमान्वयः ।मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥ २३७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्त्रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 ड (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.15
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥षडभिज्ञो दशबलोऽद्वयवादी विनायकः ।मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ।गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.51 · p. 13
जितारिश्चार्कबन्धुस्तु शाक्यसिंहोऽपि धीप्रजः ।शौद्धोदनिः शाक्यमुनिः शाक्यो राहुलसूरपि ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.335 · p. 44
नामावल्यां शाक्यसिंहः मायासुतोऽर्कबान्धवः ।शुद्धोदनसुतः शाक्यो देवदत्ताप्रजस्तथा ॥ ३३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.19 · p. 3
वागशनिर्जितारिः स्यादर्हणोऽर्हन् महासुखः ।गौतमः शाक्यसिंहः स्यान्मायादेवीसुतः खजित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.99 · p. 185
सुगते तु महाबोधि-बोधी बुद्ध-बुधौ मुनिः ।मुनीन्द्रः, सप्तमे बुद्धे शाक्यसिंहः सशाक्यकः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.40 · p. 5
समन्तभद्रो भगवान्धर्मराजस्तथागतः ।अथ शौद्धोदनिः शाक्यसिंहः सर्वार्थसिद्धकः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.34 · p. 5
मुनीन्द्रः सुगतः शाक्यो मुनिरद्वयवाद्यपि ।शाक्यसिंहस्तु सर्वार्थसिद्धः शौद्धोदनिर्गुरुः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.

शाक्यसिंह as a meaning in nānārtha verses

  • कोषकल्पतरु गौतमहृद्ये प्रवीणे द्रुपदात्मजायां स्त्रियामथर्षेर्भिदि शाक्यसिंहे । स्याद्गौतमः स्त्री उमरोचनायां । गोदावरीशम्भुकलत्रयोश्च ॥ ९० ॥ Koṣakalpataru 6.25.90
  • शब्दरत्नावली सिद्धार्थब्राह्मीगुडूचीपश्यासु स्त्रियां स्यात्तरुणे त्रिषु । वमथुर्वमने पुंसि स्यात्कुम्भिकरशीकरे ॥ विदिथः पण्डिते योगे शमथुः शान्तिमन्त्रिणोः । षड्ग्रन्थो ना करञ्जे स्याद्वचायामपि च स्त्रियाम् ॥ समर्थः शक्तहितयोः सम्बन्धे चान्यलिङ्गकः । सिद्धार्थः शाक्यसिंहे च सार्थके श्वेतसर्षपे ॥ Śabdaratnāvalī 7.17.14