कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जिन

jinaपुं · masc.

In 20 kośas: 28 synonym verses, 7 as a nānārtha head word, 23 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.25 · p. 5
अर्हञ्जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः ।शंभुः स्वयंभूर्भगवाज्जगत्प्रभुस्तीर्थंकरस्तीर्थकरो जिनेश्वरः ॥ २४ ॥स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ ।देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥ २५ ॥
इन्द्रवंशा
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.132 · p. 13
विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवोदाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
शार्दूलविक्रीडितम्
विष्णुपुंजिष्णुपुंजनार्दनपुंहरिपुंहृषीकेशपुंअच्युतपुंकेशवपुंदाशार्हपुंपुरुषोत्तमपुंअब्धिशयनपुंउपेन्द्रपुंअजपुंइन्द्रानुजपुंविष्वक्सेनपुंनरायणपुंजलशयपुंनारायणपुंश्रीपतिपुंदैत्यारिपुंपुराणपुरुषपुंयज्ञपुरुषपुंतार्क्ष्यध्वजपुंअधोक्षजपुंगोविन्दपुंषड्बिन्दुपुंमुकुन्दपुंकृष्णपुंवैकुण्ठपुंपद्मेशयपुंपद्मनाभपुंवृषाकपिपुंमाधवपुंवासुदेवपुंविश्वंभरपुंश्रीधरपुंविश्वरूपपुंदामोदरपुंशौरिपुंसनातनपुंविधुपुंपीताम्बरपुंमार्जपुंजिनपुंकुमोदकपुंत्रिविक्रमपुंजह्नुपुंचतुर्भुजपुंपुनर्वसुपुंशतावर्तपुंगदाग्रजपुंस्वभूपुंमुञ्जकेशिन्पुंवनमालिन्पुंपुण्डरीकाक्षपुंबभ्रुपुंशशबिन्दुपुंवेधस्पुंपृश्निशृङ्गपुंधरणीधरपुंआत्मभूपुंपाण्डवायनपुंसुवर्णबिन्दुपुंश्रीवत्सपुंदेवकीसूनुपुंगोपेन्द्रपुंविष्टरश्रवस्पुंसोमसिन्धुपुंजगन्नाथपुंगोवर्धनधरपुंयदुनाथपुंगदाभृत्पुंशार्ङ्गभृत्पुंचक्रभृत्पुंश्रीवत्सभृत्पुंशङ्खभृत्पुं
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.237 · p. 14
बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविज्जिनः ।बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः ॥ २३२ ॥पञ्चज्ञानो षडभिज्ञो दशार्हो दशभूमिगः ।चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ २३३ ॥द्वादशाक्षौ दशबलस्त्रिकायः श्रीघनाद्वयौ ।समन्तभद्रः संगुप्तो दयाकूर्चो विनायकः ॥ २३४ ॥मारलोकखजिद्धर्मराजो विज्ञानमातृकः ।महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते त्वमी ॥ २३५ ॥विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः ।काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥ २३६ ॥तथा राहुलसूः सर्वार्थसिद्धो गौतमान्वयः ।मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥ २३७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्त्रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 ड (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.15
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥षडभिज्ञो दशबलोऽद्वयवादी विनायकः ।मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ।गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.25 · p. 4
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः ।कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.85 · p. 11
शौद्धोदनिर्दशबलो बुद्धः शाक्यस्तथागतः सुगतः ।मारजिदद्वयवादी समन्तभद्रो जिनश्च सिद्धार्थः ॥ ८५ ॥
गीतिः
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.33 · p. 2
द्वाविंशतेराकृतिश्च नखसंज्ञास्तु विंशतिः ।सिद्धा जिनाश्चतुर्विंशत्तत्त्वं च पञ्चविंशतिः ॥ ३३ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव जिनप्रकाण्डः Kalpadrukośa 1.18.1 · p. 368
जिनोऽकनिष्ठगो बुद्धः सर्वदर्शी महाबलः ।सम्बुद्धः करुणाकूर्चो मारजिल्लोकजिच्च सः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.46 · p. 12
मुसलं त्वस्य सौनन्दं हलं संवर्त्तकं स्मृतम् ।बुद्धोऽर्हन् सुगतोऽर्हन्तो मारजिल्लोकजिज्जिनः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 113 · p. 56
विष्टरं मल्लिकापीठमासन्दीमासनं विदुः ।विष्टपं भुवनं लोको जगत् तस्य पतिर्जिनः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 131 · p. 66
अघमंहश्च दुरितं पाप्मा पापं च किल्बिषम् ।वृजिनं कलिलं ह्येनो दुष्कृतम् तज्जयी जिनः ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.2 · p. 6
जनार्दनो जलशायो वासुदेवोऽप्यधोक्षजः ।दामोदरः शौरिविधुपीताम्बरजिना हरिः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.163 · p. 25
बुद्धः शास्ता महाबोधिर्धर्मधातुस्त्रिकालवित् ।बोधिसत्त्वो जिनार्यौ च सुगतः श्रीघनाद्वयौ ॥ १६३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.105 · p. 38
अप्युत्तानशयो डिम्बः स्तनपाश्च स्तनंधयी ।वृद्धे जिनो जिरो(जरी?) जीर्णः प्रवयाः प्रकचः कवः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त दिक्पालमरीचिः Pañcatattvaprakāśa 6.1.352 · p. 25
विद्याधरा गुह्यकाख्याः शास्त्रेऽमी देवयोनयः ।षडभिज्ञो जिनो बुद्धः सुगतोऽद्वयवादकः ॥ ३५२ ॥
अनुष्टुप्
genderपुंmasc.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 1 · p. 466
अर्हन्तः क्षपणको जिनः ॥ १ ॥
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.6 · p. 1
देवाधिदेवः सर्वज्ञो वीतरागो जिनेश्वरः ।तीर्थंकरो जगन्नाथो जिनोऽर्हन्भगवान्प्रभुः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.7 · p. 1
सुगतः श्रीघनो बुद्धो बोधिसत्त्वस्तथागतः ।द्वयवादी दशबलो जिनः सौ[शौ]द्धोदनिर्मुनिः ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.8 · p. 3
अर्हन् जिनस्त्रिकालज्ञः परमेष्ठी जगत्प्रभुः ।स्वयम्भूर्भगवान् शम्भुस्तीर्थङ्करो जिनेश्वरः ॥ ८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.276 · p. 37
विष्णुर्जिष्णुर्जगन्नाथो जह्नुर्बभ्रुश्चतुर्भुजः ।अक्षजोऽधोक्षजो मार्जो विधुर्जिनो जनार्दनः ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्जि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.331 · p. 43
षडभिज्ञश्चतुस्त्रिंशज्जातकज्ञस्तथागतः ।जिनः समन्तभद्रश्च दशार्हः श्रीघनाऽद्वयौ ॥ ३३१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.17 · p. 2
षडभिज्ञो धर्मराजोऽद्वयवादी महामुनिः ।असमः खसमो मैत्री बलो दशबलो जिनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.39 · p. 5
सर्वज्ञसुगतदशवलषडभिज्ञमुनीन्द्रशाक्यशास्तारः ।मारजिदद्वयवादिश्रीघनमुनिबुद्धबोधिसत्त्वजिनाः ॥ ३९ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.41 · p. 5
गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ।दिगम्बरस्तु नग्नाटः क्षपणः श्रमणो जिनः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.9 · p. 4
महाबोधिर्धर्मधातुः श्वेतकेतुर्जिनः स्वजित् ।त्रिमूर्तिर्दशभूमीशः पञ्चज्ञानो बहुक्षमः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 2 · p. 46
अथ बुद्धो जिनो योगी सर्वज्ञः सुगतो बुधः ॥ २ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.33 · p. 5
समन्तभद्रः सर्वज्ञो मारजिल्लोकजिज्जिनः ।षडभिज्ञो दशबलो धर्मराजस्तथागतः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.35 · p. 5
गौतमश्चार्कबंधुश्च जिनस्त्वर्हंस्त्रिकालदृक् ।अष्टकर्मपरिभ्रष्टो वीतरागश्च केवली ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.2 · p. 109
मुनिर्यन्ताङ्गुदी बुद्धः पियालागस्तिकिंशुके ।जिनो [बुद्धेऽति ?] वृद्धे च जिनः [55] स्यादर्हतीत्यपि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.82 · p. 244
इनो नृपे भर्तरि भास्करे स्या-द्धनोऽस्त्रियां गोधनवित्तयोश्च ।जिनस्तु बुद्धे नरि जित्वरार्ह-वृद्धेषु तु स्यान्निजभेद्य लिङ्गः ॥ ८२ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.54 · p. 25
नृपभेदेऽप्यथो जायुः पित्ते स्याद्भेषजेऽपि च ।जिनस्त्वर्हति शाक्ये च जूटस्तु निकुरम्बके ॥ ५४ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास जकारादयः Paramānandīyanāmamālā 5.13.200 · p. 187
नटे नीपे स्मृतो जालः पटोल्यां जाल्यपि स्मृता ।जिनो बुद्धे स्मरे कृष्णेऽर्हत्ययं स्याद्विशेषतः ॥ २०० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.9 · p. 234
जिनो बुद्धे जित्वरे च तथार्हति पुमानयम् ।ज्योत्स्ना ज्योत्स्नायुतनिशि ज्ञेया चन्द्रातपेऽपि च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1924 · p. 234
गवाक्षानाययोर्जालं क्षारके कपटे गणे ।जरठे देशभेदे च जीनो बुद्धार्हतोर्जिनःप्राणिनि त्रिषु जीवः स्यात् पुंसि जन्तौ बृहस्पतौ ॥ १९२४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.240 · p. 174
निम्बेऽपि छर्दनं वान्तौ जवनो देशवेगिनोः ।बुद्धे जिनो जित्वरे च जीवनं वर्तनाम्भसोः ॥ २४० ॥
अनुष्टुप्

जिन as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् धर्मराजधर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् । Amarakośa 3.3.62
  • धरणिकोश अवलोकित[43] गणाधिपतिरित्येष शिवे विनायकेऽपि च । उपधूपित आसन्नमरणे परिधूपिते । स्यावलोकितं दृष्टं जिनः स्यादवलोकितः ॥ Dharaṇikośa 15.2.87
  • धरणिकोश बुद्धअर्धः खण्डे समांशेऽर्धमिद्धमातप्तदीप्तयोः । बुद्धा धीरजिनज्ञाता लुब्धौ मृगयुकाङ्क्षिणौ ॥ Dharaṇikośa 18.1.4
  • कोषकल्पतरु धर्मराजजघन्यजः शूद्रकनिष्ठयोः स्या- द्वृषध्वजः शंभुगणेशयोः स्यात् । पुण्यक्रिये तु त्रिषु धर्मराजो जिने कृतान्ते युधि शल्यशत्रौ ॥ ४२ ॥ Koṣakalpataru 6.7.42
  • कोषकल्पतरु ऋषभध्वजऽथो मुनिभेषजं तु । अभोजनागस्तिहरीतकी पुं जिने शिवे स्यादृषभध्वजोऽपि ॥ ४५ ॥ Koṣakalpataru 6.7.45
  • कोषकल्पतरु अर्हन्तउद्वान्तस्त्वमदे द्विपे त्रिषु समुद्गीर्णेऽथ कक्षान्तरे क्ष्मापानां प्रमदापुरेऽप्यकुशले त्वस्वन्तमन्त्येऽन्तयोः । क्षेत्रे चानवधौ *** वुदितः साधौ प्रवृत्तौ पुमान् अर्हन्तः क्षपणे जिनेऽथ जलधौ प्रोक्तस्तरन्तः पुमान् ॥ २० ॥ Koṣakalpataru 6.16.20
  • कोषकल्पतरु अर्हत्पूज्येऽर्हंस्त्रिषु ना जिने दिशि हरित्स्त्री वर्णभेदे हये ना च स्त्री तु तृणे स्त्रियां तु हरितो दूर्वा सुवर्णेऽन्यवत् । रोहित् पुंसि रवौ मृगीव्रततिगः स्त्री विद्युदुक्ता स्त्रियां संध्यायां तडिति प्रभाविरहिते भेद्यस्य लिङ्गे मता ॥ २४ ॥ Koṣakalpataru 6.16.24
  • कोषकल्पतरु बुद्धवृद्धं शिलाजे परवत्तु जीर्णे रूढे तथा सूरिणि संप्रदिष्टम् । स्याद्वेधिते विद्धमिदं सदृक्त्वे बुद्धस्तु पुंसि प्रथितो जिनार्थः ॥ ५५ ॥ Koṣakalpataru 6.20.55
  • कोषकल्पतरु अरतच्छीघ्रगेन्यत्र जिने च पुंसि ॥ Koṣakalpataru 6.27.5
  • कोषकल्पतरु तमोपहपितामहो ब्रह्मणि तातताते तमोपहोऽर्केन्दुजिनेषु वह्नौ । तनूरुहोऽस्त्री गरुतीह लोम्नि समीरणे गन्धवहो नसि स्त्री ॥ ६१ ॥ Koṣakalpataru 6.32.61
  • नानार्थार्णवसंक्षेप अर्हअर्हस्तु त्रिषु पूज्ये ना जिनेऽली तु द्वयोरलौ । पुच्छकण्टकिकीटेऽथ ना स्यादष्टमराशिके ॥ ६१ ॥ Nānārthārṇavasaṃkṣepa 2.5.61
  • शब्दरत्नावली विनायकहेरम्बगरुडे विघ्ने जिने पूज्ये विनायकः । मयूरकेऽप्यज्झटायां धन्याके च वितुन्नकम् ॥ Śabdaratnāvalī 7.1.196
  • शब्दरत्नावली भगवत्पारावती नदीगोपगीत्योश्च लवलीफले । पारावतः कलरवे पुमान् मर्कटतिन्दुके ॥ पुष्पदन्तो भवेद्विद्याधरे दिग्वारणान्तरे । भगवान् त्रिषु पूज्ये स्याद् गौर्यां स्त्री तु जिने पुमान् ॥ स्त्रियां भोगवती गङ्गा सर्पपुर्योरहौ पुमान् । रङ्गमाता च कुट्टन्यां रोगवृक्षभिदोः(?) स्त्रियाम् ॥ लक्ष्मीपतिर्नरपतौ वासुदेवे भवेत्पुमान् । व्यतिपातो योगभेदे महोत्पातापमानयोः ॥ Śabdaratnāvalī 7.16.171
  • शब्दरत्नावली बुद्धनद्धो बद्धे समुद्धृते वधो बन्धकरन्धयोः । बन्धुर्ना बान्धवे मित्रे बन्धूके भ्रातरीत्यपि ॥ बाधा निषेधे दुःखे च बुधः सोमजसूरिणोः । बुद्धो जिने पण्डिते ना बुधितेऽपि च वाच्यवत् ॥ बोधः समाधिभेदे ना तथा पिप्पलभूरुहे । मधु क्लीबं पुष्परसे मर्त्ये क्षौद्रे रसान्तरे ॥ पुंसि मधुद्रुमे चैव वसन्ते द्रैत्यभिद्यपि ॥ Śabdaratnāvalī 7.19.8
  • शब्दरत्नावली मुनिमुनिर्ना नारदादौ तु वङ्गसेनद्रुमे जिने । मृत्स्ना मृत्सा तु काक्ष्यां स्त्री यानं स्याद्वाहने गतौ । योनिर्द्वयोराकरे स्याद्भगे भूमौ च कारणे ॥ Śabdaratnāvalī 7.20.15
  • शब्दरत्नावली तमोपहतमोपहो हिमकरे चण्डभानुजिनाग्रिषु । प्रतिग्रहो ग्रहभिदि स्वीकारसैन्यपृष्ठयोः ॥ पतद्ग्रहग्रहणयोर्विधिदावव्यवस्तुनि । परिग्रहः स्त्रीस्वजनादानेषु मूलशापथोः ॥ परीवहो जलोच्छ्वासक्षितिभिद्योग्यवस्तुनीः ॥ Śabdaratnāvalī 7.33.32
  • शब्दरत्नाकर नग्ननग्नो रुद्रो जिनोऽवासा वेदत्यागी निरग्निकः । नाशस्त्वदर्शने मृत्यौ परिध्वंसे पलायने ॥ १९४७ ॥ Śabdaratnākara 4.1.1947
  • शब्दरत्नाकर मुनिमौलिस्तु संयते केशे चूडायां मकुटे द्वयोः । वाचंयमे वसिष्ठादौ बुद्धे वृक्षे जिने मुनिः ॥ १९७६ ॥ Śabdaratnākara 4.1.1976
  • त्रिकाण्डशेष विनायकगुरावनाथे गरुडे जिने विघ्ने विनायकः । वृषाङ्कौ शिवभल्लातौ वञ्चकौ धूर्तफेरवौ ॥ ४१ ॥ Trikāṇḍaśeṣa 3.3.41
  • त्रिकाण्डशेष सर्वज्ञसंज्ञा सूर्यप्रियायां च सर्वज्ञः शङ्करे जिने । Trikāṇḍaśeṣa 3.3.92
  • त्रिकाण्डशेष भगवत्रामानुजे नाट्यशास्त्रे दौष्मन्तौ भरतो नटे । जिने पूज्ये च भगवान्भोगवानाढ्यनागयोः ॥ १७४ ॥ Trikāṇḍaśeṣa 3.3.174
  • त्रिकाण्डशेष बुद्धरोधे निरोधो नाशे च बुद्धो ज्ञाते जिने बुधे । निषेधे बुद्धयोर्बाधो रौहिणेये कवौ बुधः ॥ २१९ ॥ Trikāṇḍaśeṣa 3.3.219
  • वैजयन्ती अर्हत्अर्हन्तौ जिनसम्मान्यावर्वन्तौ हयकुत्सितौ । अन्धोऽचक्षुस्तमोऽप्यन्धमर्चिर्भाज्वालयोर्न ना ॥ ६ ॥ Vaijayantī 6.5.6