कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्वेतमरिच

śvetamaricaक्ली · neut.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1134 · p. 44
श्वेतेऽत्र श्वेतमरिचः पुंनागः सुरपर्णिका ॥ ११३४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.183
शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम् ।
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.278 · p. 91
जन्यां तु जननी प्रोक्ता शृङ्गी तु स्याद्वृषारुणा ।शीघ्रजं श्वेतमरिचं पद्मोत्पलमितीर्यते ॥ २७८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.120 · p. 146
मुखामोदः श्वेतशिग्रौ मुखभङ्गश्च रोचनः ।सुमूलः श्वेतमरिचस्तीक्ष्णः स्यादथ रक्तके ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.74 · p. 149
मुखभञ्जो विमुचति(?) चौरः श्वेतमरीचकः ।तद्बीजं श्वेतमरिचं शिग्रुतैलं तु बैजकम् ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.89 · p. 51
श्वेतेऽत्र श्वेतमरिचो रक्ते तु मधुशिग्रुकः ।तिनिशे चित्रकृन्नेमिर्वञ्जुलो रथसाधकः ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.561 · p. 98
पाक्योऽथ सर्ज(र्जि?)काक्षारे क(का?)पोतः सुखवर्चकः ।शिग्रुजं श्वेतमरिचं त्वक्क्षीरावंशरोचना ॥ ५६१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1994 · p. 329
शिग्रुः सोभाञ्जनो नाम सौभाञ्जनः शौभाञ्जनः ।पुनर्नाम्नोऽत्र भेदे श्वेतमरिचः उच्यते ॥ १९९४ ॥
metre not recognised
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.90 · p. 130
शृंगी विषा प्रतिविषातिविषोपविषारुणा ।शिग्रुजं श्वेतमरिचं त्वक्क्षीरा वंशरोचना ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.