चित्रकृत्
citrakṛtपुं · masc.In 12 kośas: 13 synonym verses, 2 as a nānārtha head word.
रङ्गाजीवस्तौलकिकश्चित्रकृच्चाथ तूलिका ॥ ९२१ ॥कूचिका चित्रमालेख्यं पलगण्डस्तु लेप्यकृत् ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ।आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः ।
अनुष्टुप्
genderपुंmasc.
लेपकः पलगण्डः स्याद्रङ्गाजीवस्तु चित्रकृत् ।कर्म लेप्यादिकं सर्वं पुस्तकर्म स्मृतं बुधैः ॥ ५९१ ॥
अनुष्टुप्
genderपुंmasc.
तैलपात्रं कूपकः स्याद्रङ्गाजीवस्तु चित्रकृत् ।भवेत्तौलिकिकश्चाथ शस्त्रमार्जोऽसिधावकः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
श्वेतेऽत्र श्वेतमरिचो रक्ते तु मधुशिग्रुकः ।तिनिशे चित्रकृन्नेमिर्वञ्जुलो रथसाधकः ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
सीवनं सेवनं सूती रङ्गाजीवस्तु चित्रकृत् ।लिखितं चित्तमालेख्यं पुस्तं लेख्यादिकर्मणि ॥ २३४ ॥
अनुष्टुप्
genderपुंmasc.
कान्दविकभक्ष्यकारौ रङ्गाजीवस्तु तौलिकः ।चित्रकृत्कूचिका तूलिका चित्रालेख्य इत्यपि ॥ ४३० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाट्यविन्नटको नाट्यो नर्त्तको लास्यकृन्नटः ।चित्रविच्चित्रकृच्चित्रकर्मा चित्रविलेखकः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
तौलिकिको रङ्गाजीवश्चित्रकारः चित्रकृत् ।नामान्येतानि कथ्यन्ते चित्रकारस्य कोविदैः ॥ १५५७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
तिनिशः स्यन्दनो नेमी नेमिस्तथाऽतिमुक्तकः ।रथद्रुमो रथद्रुश्च वञ्जुलश्चापि चित्रकृत् ॥ २०२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderपुंmasc.
तिनिशः स्यन्दनो नेमिश्चित्रकृत् चातिमुक्तकः ।स्यात् स्यन्दनक्रमो नेमी रथद्रुश्च तिनाशकः ॥
अनुष्टुप्
genderपुंmasc.
अक्षोङः कर्परालश्च नेमीये त्वतिमुक्तकः ।चित्रकृत् तिमिशो नेमी वञ्जुलोऽथायुगच्छदे ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
सूचिसूत्रं पिप्पलकमोतं प्रोतमुभे त्रिषु ।सीवनं सेवनं स्यूती रंगाजीवस्तु चित्रकृत् ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
genderपुंmasc.
पृथुकाह्वयभक्षे स्यात् त्रि तु पिच्छितविस्तृते ।चित्रकृत् तु पुमानुक्तस्तिमिशाह्वयपादपे ॥ ७४९ ॥
अनुष्टुप्
meaningsतिमिश
त्रि तु चित्रकरेऽथ स्त्री चुलुम्पा छागयोषिति ।पुमांस्तु गमनेऽथ द्वे चुलुको द्वीपिसंज्ञके ॥ ७५० ॥
अनुष्टुप्
meaningsचित्रकर