कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मोरट

moraṭaक्ली · neut.

In 13 kośas: 17 synonym verses, 7 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1194 · p. 46
भेदाः कान्तारपुण्ड्राद्यास्तस्य मूलं तु मोरटम् ॥ ११९४ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.183
शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम् ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.229 · p. 158
सद्यः प्रसूतायाः क्षीरं पीयूषोऽभिनवं पयः ।पेयूषो मलिनं क्लीबे घनं स्यादथ मोरटम् ॥ २२९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.420 · p. 296
व्यक्तगन्धा मोरटस्तु कर्णपुष्पो मधुस्रवः ।धनमूलः पीलुपत्रः पुरुषः क्षीरमोरटः ॥ ४२० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.588 · p. 315
शतपरुः सूक्ष्मपत्र उत्कटा मधुरा द्वयोः ।ह्रस्वमूलाऽथ तन्मूले मोरटश्चेक्षुलोचनम् ॥ ५८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.93 · p. 471
… तथा मोरटघृष्टयोः ।… गोष्ठाण्डतुण्डानां प्रवणस्येरिणस्य च ॥ ९३ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 184
वेणुबीजं वेणुयवो वैणवं वेणुसंभवम् ।इक्षुमूलं मोरटं स्यादिक्ष्वाली चेक्षुबालिका ।रक्तेक्षुरित्कटः सूक्ष्मपत्रः कक्कटिका(?)पि सः ॥ ७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.97 · p. 106
चीनपिष्टं च शृङ्गाट स्यात्फाण्टं मोरटं पिटम् ।तिरीटं पृष्ठ-गोष्ठे च क्ष्वेडं धामार्गवार्थकम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1453 · p. 174
स्यान्मोदयितृमोदित्रोरथ स्यात् पुंसि मोचकः ।शिग्रुवृक्षे मोक्तरि तु त्रिषु क्लीबं तु मोर(ग?ट)म् ॥ १४५३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.113 · p. 66
पुण्ड्रकान्तारमुख्याः स्युस्तन्मूलं मोरटं स्मृतम् ।इषीकाकाश इत्येवमर्जुनं यवसं तृणम् ॥ ११३ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.89 · p. 222
करोटं मोरटं भाण्डं तुण्डाण्डे शरणेरणे ।लवणं द्रविणशृङ्गाटपिटपारायणानि च ॥ ८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.562 · p. 98
ग्रन्थिकं पिप्पलीमूले चटकाशिर इत्यपि ।गोलोभ्यां भूतकेशः स्यादिक्षुमूले तु मोरजः(टः?) ॥ ५६२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2156 · p. 354
ईक्षोर्मूलस्य नामात्र मोरटं मन्यते बुधैः ।काशः कासमिषीका च तृणभेदोऽपि कथ्यते ॥ २१५६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.210 · p. 152
त्वक्क्षीरा वंशजा वंशा क्षीरिका वंशलोचना ।शिग्रूजं शुक्लमरिचमिक्षुमूलन्तु मोरटम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.492 · p. 64
सालस्तु राजनिर्यासो मोरटोऽङ्कोलपत्रकः ।सप्तपर्णस्त्वयुक्पर्णः शारदो विषमच्छदः ॥ ४९२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.146 · p. 135
ऊधस्यं जीवनीयं च धारोष्णं त्वमृतं पयः ।आसप्ताहात्तु पीयूषं ततो मोरटमोरके ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.149 · p. 135
मोरटं गोरसश्चाथ घोलः पादांबुसंयुते ।तक्रं कट्वरमर्शोघ्नं श्वेतच्छाणञ्च सारणम् ॥ १४९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ टान्ताः Koṣakalpataru 6.10.24 · p. 183
स्यात्पञ्चास्ये मोरटस्त्विक्षुमूले-ऽङ्कोटोद्भूते च प्रसूने स्त्रियां तु ।स्यात्सप्ताहानन्तरक्षीरके चस्त्री मूर्वा[272b]यां मोरटा संप्रदिष्टा ॥ २४ ॥
शालिनीmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.180 · p. 26
मोरटः कृष्णजीरे च रम्भास्थ्नि मलयोद्भवे ।यजतस्तु शशाङ्के स्याद् यज्ञद्रव्येऽथ मन्मथे ॥ १८० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1454 · p. 174
इक्षुमूले प्रसूत्यादिसप्ताहादूर्ध्वजे गवाम् ।क्षीरे मोरकसंज्ञेऽन्ये पुनर्गो(चर?रस) ऊचिरे ॥ १४५४ ॥
अनुष्टुप्metre not read in every line
शिवकोष Śivakoṣa · शिवदत्तमिश्र टत्रिः Śivakoṣa 8.2.135 · p. 13
सप्तरात्रात्परं क्षीरेऽङ्कोटपुष्पेक्षुमूलयोः ।मोरटा पीलुपर्ण्यां च मोवाटः कृष्णजीरके ॥ १३५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश टान्ताः Śabdaratnāvalī 7.11.51 · p. 202
मर्कटो लूतिके कीशे स्त्रियां शिखिकरञ्जयोः ।मोचाट स्यान्मलयजे रम्भास्थिकृष्णाजीरके ॥मोरटं स्यादिक्षुमूले तथाङ्कोठप्रसूनके ।सप्तरात्रात्परक्षीरे भूर्विकायाञ्च मोरटा ॥
अनुष्टुप्metre not read in every line
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.101 · p. 125
मोरटं गोर्नवे क्षीरेऽङ्कोटपुष्पेक्षुमूलयोः ।म्लिष्टं म्लाने कुवचने मर्कटी शूकशिम्ब्यऽपि ॥ १०१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.65 · p. 262
दूर्वायां स्त्रीक्षुमूले क्ली गोरसेऽपि च मोरटम् ।त्रिलिङ्गं मण्डलं बृन्दे ग्रामौघप्रतिबिंबयोः ॥ ६५ ॥
अनुष्टुप्

मोरट as a meaning in nānārtha verses