संतमस
saṃtamasaक्ली · neut.In 9 kośas: 9 synonym verses.
genderक्लीneut.
अवतमसमन्धतमसं संतमसं ध्वान्तमन्धकारं च ।तिमिरं तमस्तमिस्रां तमिस्रमिच्छन्ति भूछायाम् ॥ ११० ॥
आर्या
genderक्लीneut.
अन्धं तमोऽन्धतमसमन्धातमसमित्यपि ।क्षीणं तमोवतमसं विष्वक् संतमसं च तत् ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
स्यान्नीलपङ्कं दिनकेसरान्ध-ध्वान्तानि तत्संतमसं प्रसारि ।गाढेऽन्धपूर्वं तमसं विहीनेत्वत्रावपूर्वं तमसं प्रदिष्टम् ॥ ८ ॥
इन्द्रवज्रा
genderक्लीneut.
कृष्णं नीलासितं कालं धूमं धूम्रमलिप्रभः ।तमोऽन्धकारं तिमिरं ध्वान्तं संतमसं तमम् ॥ १४८ ॥
अनुष्टुप्
genderक्लीneut.
अन्धकारस्तमो ध्वान्तं भूच्छाया तिमिरं त्वथ ।तमिस्र[13]मन्धतमसं तथा संतमसं स्मृतम् ॥ १३४ ॥
अनुष्टुप्
genderक्लीneut.
विष्वक्तमः संतमसं गाढध्वान्तान्धतामसे ।क्षीणंतमोऽवतमसं? कद्रूरुरगजन्मदा ॥ २५५ ॥
अनुष्टुप्
genderक्लीneut.
निशीथिनी क्षपा दोषा क्षणदा च विभावरी ।अन्धकारं च तिमिरं ध्वान्तं संतमसं तमः ॥ ८० ॥
अनुष्टुप्
genderक्लीneut.
तिमिरं तमस्तमिस्रं ध्वान्तं क्लीबेऽपि चान्धकारः स्यात् ।अवतमसमन्धतमसं संतमसं क्षयिणि भूयसि ततेऽस्मिन् ॥ २९७ ॥
गीतिः
genderक्लीneut.