असित
asitaपुं · masc.In 19 kośas: 33 synonym verses, 2 as a nānārtha head word, 13 as a meaning of another word.
शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ ॥षोडशार्चिर्दैत्यगुरुर्धिष्ण्यः शनैश्चरः शनिः ।छायासुतोऽसितः सौरिः सप्तार्ची रेवतीभवः ॥ १२० ॥मन्दः क्रोडो नीलवासाः स्वर्भाणुस्तु विधुंतुदः ।तमो राहुः सैंहिकेयो भरणीभूरथाहिकः ॥ १२१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पञ्चदशाहोरात्रः स्यात्पक्षः स बहुलोऽसितः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ञ्च (wrong syllable)
genderपुंmasc.
अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः ।कपिलः पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः ॥ १३९६ ॥बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः ।स्याद्रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः ॥ १३९७ ॥
अनुष्टुप्
genderविadj.
genderपुंmasc.
उशना शुक्रः काव्यो दैत्यगुरुर्भार्गवः कविर्धिष्ण्यः ।असितः क्रोडः पङ्गुश्छायातनयः शनैश्चरः शौरिः ॥ ४८ ॥
गीतिः
genderपुंmasc.
सप्तर्षयस्तु विद्वद्भिः स्मृताश्चित्रशिखण्डिनः ।कृत्तिका बहुला प्रोक्ताः पक्षस्तु बहुलोऽसितः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
असितं शिति कृष्णं च कालं नीलं च मेचकम् ।श्यामं तु श्यामलं रामं पालाशं हरितं हरित् ॥ ७३४ ॥
अनुष्टुप्
genderविadj.
मार्तण्डजो सूर्यसुतो भानुभुर्भानुजः शनिः ।सूर्यपुत्रो भानुसुतो दिनेशो नन्ददनोऽसितः ॥ ७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पक्षशुक्लः सितःश्वेतो वलक्षो वहुलोत्तरः ।असितो बहुलः कृष्णो शुक्लेतर सितेतरः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
हरिणः पाण्डुरः पाण्डुः पाण्डरश्चाथ धूसरः ।ईषत्पाण्डुः श्यामलस्तु कृष्णो नीलोऽसितोऽपि च ॥ १६२ ॥
अनुष्टुप्
genderविadj.
मन्दश्-छायातनयः पातंगि-क्रूरदृक्-शनयः ।असित-शनैश्चर-नीलाम्बर-यम-सप्तार्च्चिषः कोणः ॥ ५४ ॥
उपगीतिः
genderपुंmasc.
पालाशो हरित-हरित्-पलाश-पीत-नीलाः स्युः स च हरितालसंनिभोऽपि ।श्या[36b]म-श्यामल-शिति-काल-कृष्ण-रामाःनीलोऽस्त्री त्वसित इहास्ति मेचकोऽपि ॥ ३० ॥
प्रहर्षिणीmetre not read in every linenearly प्रहर्षिणी
genderविadj.
गौतमश्च जरत्कारुरसितो बहवोऽपरे ।गर्गस्यान[104b]न्तरापत्ये गार्गिर्नाडिर्द्ध(र्न)डस्य च ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कृष्णं नीलासितं कालं धूमं धूम्रमलिप्रभः ।तमोऽन्धकारं तिमिरं ध्वान्तं संतमसं तमम् ॥ १४८ ॥
अनुष्टुप्
genderविadj.
धिष्ण्यश्छायासुतः सौरिरसितो रेवतीभवः ।नीलवासाः शनिर्मन्दः क्रोडसप्तार्चिषौ तथा ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
कापोतस्तु कपोताभः कालः कृष्णोऽसितः शितिः ।श्याममेचकरामास्तु नीलः श्यामलकः समौ ॥ २८८ ॥
अनुष्टुप्
genderविadj.
काकतुण्डोऽसितः प्रोक्तः श्रीखण्डं रोहणद्रुमः ।रक्तचन्दनपत्राङ्गे क्लीबलिङ्गे समे उभे ॥ २९४ ॥
अनुष्टुप्
genderपुंmasc.
पङ्गुमन्दौ शनेर्नाम्नि छायेयोऽसित इत्यपि ।तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
भारद्वाजः पक्षिमुनिर्दधित्थः पाण्डुपक्षतिः ।अलिर्मिलिन्दो भ्रमरो लम्बो मधुपोऽसितः ॥ ३७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्दो (syllables merged)
genderपुंmasc.
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः ।शनिः शनैश्चरः शौरिर्मन्दश्छायासुतोऽसितः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ।कालः श्यामः सितिः कृष्णः श्यामलो मेचकोऽसितः ॥ ८२ ॥
अनुष्टुप्
genderविadj.
छायासुतोऽसितो मन्दः क्रूरात्मा च यम स्थिरः ।पङ्गुः क्रोडस्तथा कालः नीलवासा महाग्रहः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चदशदिनानाञ्च पक्षः स बहुलोऽसितः ।कृष्णो निशाह्वयः ख्यातः शुक्लो दिशाह्वयस्तथा ॥ १३९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable); pāda 4, syllable 3 दि (wrong syllable)
genderपुंmasc.
कृष्णः कालस्तथा नीलः श्यामश्च श्यामलोऽसितः ।शितिश्च मेचको रामो नव नामानि सन्ति वै ॥ २५३७ ॥
अनुष्टुप्
genderपुंmasc.
असितश्चेति पर्यायः कृष्णवर्णस्य कीर्तितः ।पीतो गौरो हरिद्राभः पीतपर्याय ईरितः ॥
अनुष्टुप्
genderपुंmasc.
नीलवस्त्रोऽसितः कालस्तमो राहुर्विधुंतुदः ।स्वर्भानुः सैंहिकेयश्च स एवाभ्रपिशाचकः ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
स गोकर्णोऽसितो रामो रोहिषो गर्दभाकृतिः ।न्यङ्कुस्तु शम्बराकारस्त्रिकेण विपुलोन्नतः ॥ ६८३ ॥
अनुष्टुप्
genderपुंmasc.
कालश्यामश्यामलकृष्णासितनीलमेचकास्तु समाः ।रक्तो रोहितलोहितताम्रारुणशोणपाटलाश्च समाः ॥ ८८८ ॥
गीतिः
genderविadj.
हृदयान्नाभिसंस्थानः शिवेशः क(वि)मलोऽसितः ।लघुप्रयत्नश्चोपान्त्यो(त्यो) ळ-कारः प्रोच्यते बुधैः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
मन्दः खोडोऽसितः क्रोडश्छायापुत्रः शनैश्चरः ।सौरिः स्थिरगतिः कोणो दीर्णांगो युगवर्तकः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
पक्षोऽर्धमासः पूर्वस्तु शुक्लाख्योऽन्योऽसिताह्वयः ।क्षीयमाणतिथिप्रायः पक्षो रिक्तोऽपरस्त्वणिः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
मध्वासवोऽसितः सेव्यः शार्करो माधवोऽस्त्रियाम् ।मैरेयमासवो धात्रीधातकीगुडवारिभिः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
काले कृष्णासितश्यामनीलश्यामलमेचकाः ।रोहिते लोहितो रक्तो हारिद्रे पीतपीतले ॥ ११ ॥
अनुष्टुप्
genderविadj.
द्वे तु दैत्ये गजे च क्ली पुनः कांस्याख्यलोहके ।असितस्तु पुमान् ज्ञेय इक्ष्वाकुकुलजे नृपे ॥ ११५ ॥
अनुष्टुप्
meaningsइक्ष्वाकुकुलजनृप
शनैश्वरे च वर्णे च कृष्णे तद्वति तु त्रिषु ।अबद्धे चाप्यथासाध्यजिह्वारोगान्तरेऽलसः ॥ ११६ ॥
अनुष्टुप्
doubtful
असित as a meaning in nānārtha verses
- धरणिकोश रामरामा स्त्री जामदग्न्यश्च रामो रामौ सितासितौ । रामो दाशरथिश्चासौ पशुभेदे हलायुधे ॥ Dharaṇikośa 24.3.3
- धरणिकोश श्यामाश्यामा रात्रौ शारिवायां श्यामौ च हरितासितौ । श्यामा प्रियङ्गुराख्याता श्यामा च कापि कामिनी ॥ Dharaṇikośa 24.3.7
- कोषकल्पतरु द्रोणप्रायो भूम्न्यसुषु त्रिषु त्वयमिह स्यात्पूरितेऽथ द्रुणं चापेऽसौ च पुमांस्तु वृश्चिकगतो भृङ्गेऽथ कूर्म्यां द्रुणी । वार्द्रोण्यां च कृपीपतौ तु गदितः पुंस्याढके तच्चतु- ष्के द्रोणः करटेऽसिते द्रुणिरिव द्रोणी च नीवृद्भिदि ॥ ५ ॥ Koṣakalpataru 6.15.5
- कोषकल्पतरु लिप्तलिप्तं विषाक्तासितलेपनेषु दीप्तं तु दग्धे ज्वलितेऽतिभासि । कृत्तं भवेच्छिन्नविवेष्टितेषु दत्तं वितीर्णे वदिते च शस्तम् ॥ २६ ॥ Koṣakalpataru 6.16.26
- कोषकल्पतरु नीलउञ्छे तु षण्ढेऽप्यसिते तु नीलो ऽस्त्रियां परस्मिंस्त्वसितान्विते स्यात् ॥ ६७ ॥ Koṣakalpataru 6.28.67
- कोषकल्पतरु बहुलअग्नौ च स्त्री तु नील्येलागोषु स्त्री भूम्नि भान्तरे । क्लीबेऽन्तरिक्षे परवदसितप्राज्ययोर्भवेत् ॥ ८ ॥ Koṣakalpataru 6.28.8
- कोषकल्पतरु श्यामलदेवलो नारदे देवधनभोक्तरि धार्मिके । शिलान्तरे ना कृकलासकेऽपि स्याद्धेमलः काञ्चनकारके च । स्याच्छ्यामलोऽच्छेऽप्यसिते परस्मिन् स्यात्कोमलं वारिणि वा मृदौ च ॥ ३२ ॥ Koṣakalpataru 6.28.32
- नानार्थार्णवसंक्षेप पद्मगजबिन्दुष्वष्टकायां नागराजान्तरे तु ना । निधिभेदे व्यूहभेदे वर्णे पीतसितासिते ॥ ७०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.702
- शब्दरत्नावली अस्तअस्तः पुंसि पश्चिमाद्रौ क्षिप्तावसितयोस्त्रिषु । अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु ॥ Śabdaratnāvalī 7.16.2
- शब्दरत्नावली रामरेणुकातनये पुंसि त्रिषु चारुसितासिते । वास्तूककुष्ठयोः क्लीबं नारी हिङ्गुलयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.25.19
- त्रिकाण्डशेष मलिनभृतिकाञ्चनयोर्मर्म मलिनं दूषितेऽसिते । मानं प्रमाणे तौल्ये च मीनो राश्यन्तरे झषे ॥ २५१ ॥ Trikāṇḍaśeṣa 3.3.251
- वैजयन्ती रामरथ्यो रथहितेऽमुष्य स्वीयेऽस्याश्वे च वोढरि । रागवद्रोहितौ रक्तौ रामश्चारौ सितेऽसिते ॥ १४ ॥ Vaijayantī 6.4.14
- वैजयन्ती बहुलआत्मज्ञे क्ली तु विधिवद्वेदभागतदंशयोः । बहुलः कृष्णपक्षेऽग्नौ पुमांस्त्रिष्वसिते बहौ ॥ ६१ ॥ Vaijayantī 7.5.61