कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

प्रथमं काण्डम् · पातालभोगिवर्गः

इति नाट्यवर्गः

अथ पातालभोगिवर्गः

अधोभुवनं पातालं बलिसद्म रसातलम् ।नागलोकोऽथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः ।
1.8.1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु ॥ २ ॥
1.8.2
अनुष्टुप्
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः ।ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः ॥ ३ ॥
1.8.3
अनुष्टुप्
विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वराः ।
1.8.4
अनुष्टुप्
शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे ॥ ४ ॥
1.8.4
अनुष्टुप्
तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ ।
1.8.6
अनुष्टुप्
अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ ॥ ५ ॥
1.8.5
अनुष्टुप्
मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः ।
1.8.8
अनुष्टुप्
सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६ ॥आशीविषो विषधरश्चक्री व्यालः सरीसृपः ।कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ।उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ।कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ॥
1.8.9
अनुष्टुप्
अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ।
1.8.10
अनुष्टुप्
त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः ॥
1.8.11
अनुष्टुप्
समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् ॥ ९ ॥
1.8.9
पुंसि क्लीबे च काकोलकालकूटहलाहलाः ।सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥दारदो वत्सनाभश्च विषभेदा अमी नव ।
1.8.13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः ॥ ११ ॥
1.8.11
अनुष्टुप्metre not read in every line