तमिस्रा
tamisrāस्त्री · fem.In 14 kośas: 15 synonym verses, 5 as a nānārtha head word.
निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा ॥ १४१ ॥त्रियामा यामिनी भौती तमी तमा विभावरी ।रजनी वसतिः श्यामा वासतेयी तमस्विनी ॥ १४२ ॥उषा दोषेन्दुकान्ताथ तमिस्रा दर्शयामिनी ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderस्त्रीfem.
तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता ।
अनुष्टुप्
genderस्त्रीfem.
तमी तमिस्रा कथिता तमस्विनी,विभावरी नक्तमुखा च शर्वरी ।क्षपा त्रियामा क्षणदा निशीथिनी,निशा च दोषा रजनी च यामिनी ॥ १०७ ॥
वंशस्थम्
genderस्त्रीfem.
अवतमसमन्धतमसं संतमसं ध्वान्तमन्धकारं च ।तिमिरं तमस्तमिस्रां तमिस्रमिच्छन्ति भूछायाम् ॥ ११० ॥
आर्या
genderस्त्रीfem.
रजनी यामिनी यम्या त्रियामा क्षणदा क्षपा ।तमा तमस्विनी रात्रिर्विभावरिरितीर्यते ।तमिस्रा क्षणमीक्षाणी शर्वरी च निशीथिनी ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
यामिनी स्यात्तमिस्रापि तमस्यतितमोयुता ।ज्योत्स्ना तु चन्द्रिकायुक्ता बहुनिड्गणरात्रकम् ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्यौत्स्नी ज्योतिष्मती च स्याद्रात्रिश्चन्द्रिकया युता ।तामसी तु तमिस्रा सायं धं(?)तमसंयुता ॥ ४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
दर्शरात्रिस्तमिस्राथ ज्योत्स्नी स्यात्पूर्णिमानिशा ।निशागणो गणरात्रो गर्भकं यामिनीद्वयम् ॥ १३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
genderस्त्रीfem.
निःशब्दा निष्क्रिया दोषा सूचिनी बोधिनीति च ।लात्रा तमिस्रा च तमी तमस्वी तामसीति च ॥ १३५ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्यौस्त्नी तु पूर्णिमारात्रिस्तमिस्रा दर्शयामिनी ।निशासमूहबोधार्थे गणरात्रो निशागणः ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्योत्स्नायुक्तक्षपायां तु, ज्योत्स्नी ज्योत्स्नापि, दर्शनिट् ।तमिस्रा दन्तसंयोगा द्युः पक्षी निड्द्वयावृतः ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
ध्वान्ते तमं तमोऽदन्तौ, तमसं तमसस्तमः ।सान्तं, तमिस्रा तमिस्रं सदन्त्यौ तिमिरं तथा ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
क्षणदाक्षपात्रियामावसतिश्यामानिशानिशीथिन्यः ।विभावरी यामिनी च तमिस्रा तामसी निशा ॥ २३७ ॥
metre not recognised
genderस्त्रीfem.
तमिस्रे तु तमिस्रा स्त्री नागी तु स्थूलपन्नगी ।दर्वी फणं गरः क्ष्वेलः स्यात्तु काकोदरोरगी ॥ १७८१ ॥
अनुष्टुप्
genderस्त्रीfem.
तमी तमस्विनी रात्रिर्निशा घारिर्विभावरी ।तमिस्रा क्षाणिनी क्षाणी शर्वरी वासतेय्युषा ॥ ५७ ॥
अनुष्टुप्
genderस्त्रीfem.
तमिस्रं तिमिरे प्रोक्तं तमिस्रं कोपवाचकम् ।तमिस्रा तामसी [88]रात्री तमिस्रा च तमस्ततिः ॥
अनुष्टुप्
कुब्जपुष्पैरण्ड इति तमिस्रा तु स्त्रियामियम् ।ध्वान्तरात्रौ तथा रात्रौ स्यादन्धतमसे त्वना ॥ ८२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
कुटी गृहे वटी पाशे घटी नाड्यां पुटी पुटे ।यात्रा प्रवर्तने ध्वान्ते तमिस्रा संस्थितिर्मृतौ ॥ १७३० ॥
अनुष्टुप्
meaningsध्वान्त
तेमनं व्यज्जने क्लेदे तोत्रे तोदे च तोदनम् ।तमस्विन्यां तमिस्रा स्त्री तमिस्रं तिमिरे न ना ॥ २०९९ ॥
अनुष्टुप्
meaningsतमस्विनी