चण्ड
caṇḍaपुं · masc.In 18 kośas: 34 synonym verses, 6 as a nānārtha head word, 8 as a meaning of another word.
genderपुंmasc.
ईर्ष्यालुः कुहनोऽक्षान्तिरीर्ष्या क्रोधी तु रोषणः ॥ ३९१ ॥अमर्षणः क्रोधनश्च चण्डस्त्वत्यन्तकोपनः ।
अनुष्टुप्
genderविadj.
शीते तुषारः शिशिरः सुशीमः शीतलो जडः ।हिमोऽथोष्णे तिग्मस्तीक्ष्णस्तीव्रश्चण्डः खरः पटुः ॥ १३८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
genderविadj.
क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
genderविadj.
तिग्मं तीक्ष्णं खरं तीव्रं चण्डमुष्णं पटु स्मृतम् ।आतपः कथ्यते रौद्रं निदाघो घर्म उच्यते ॥ ४० ॥
अनुष्टुप्
genderविadj.
चण्डो द्विनग्नोऽथ पुनश्चण्डिकोऽप्यथ संततिः ।स्त्रियां सूनुः पुमान्पुत्र आत्मजस्तनयोऽपि च ॥ ७९ ॥
अनुष्टुप्
genderविadj.
दासौ चण्डमहाचण्डौ चित्रगुप्तोऽस्य लेखकः ।वैध्यतस्तु प्रतीहारः कालीची तु विचारभूः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
वीरभद्रस्तु हीराजो हेलकस्तु कृतालकः ।अथ चण्डो महाचण्डः कुशाण्डी कङ्कणप्रियः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
विश्वामित्रप्रियश्चण्डो दीप्तः शरवणोद्भवः ।वासुदेवप्रियश्चापि स च द्वादशबाहुकः ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
धूमोर्णा स्त्री संयमनी पूर्द्वाःस्थो वेधकोऽस्य च ।दासौ चण्डमहाचण्डौ कायस्थश्चित्रगुप्तकः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
स्याच्छारदः शारदिक आतपो यः शरद्भवः ।तिग्मं तीक्ष्णं रौद्र-तीव्रे चण्डमुष्णद्रवाङ्कः [?] ॥ ४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
मुस्ताद-क्रोड-कुद्दाल-दंष्ट्रास्त्र-मुखलाङ्गलाः ।भवेदाखनिकश्चण्डः पीनस्कन्धो महांस्त्वयम् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
चण्डस्त्वत्यन्तकोपी स्यात्तितिक्षुः सहनः क्षमी ।सहिष्णुः क्षमिता क्षन्ता क्षमावानपि सासहिः ॥ ५७ ॥
अनुष्टुप्
genderविadj.
वैध्यतस्तु प्रतीहारो लेखकश्चित्रगुप्तकः ।महाचण्डश्व चण्डश्च भुजिष्यौ द्वौ पुरी पुनः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
ईर्षालुकुहनौ तुल्यौ क्रोधनामर्षणौ समौ ।रोषणः क्रोधवाञ्चैव चण्डः स्याद्बहुकोपनः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
कलिञ्जगण्डौ लगुडः पिचण्डोवरण्डकूष्माण्डकरण्डरुण्डाः ।नाडीव्रणाङ्गुष्ठह[2]ठा गुणश्चघटो नरे भ्रूणशिखण्डचण्डाः ॥ १८ ॥
उपजातिः
genderपुंmasc.
सुन्दरः सुन्दरद्वेषी चोरः स्वप्रियवेदनः ।राजमित्रः सुमसखश्चण्डश्चण्डपराक्रमः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
भार्यादिकपरे दोडपलहारप्रपादयः ।स्वबुद्धिजीवके सूरिः साहनः(?)श्चण्ड इत्यपि ॥ ६६९ ॥
अनुष्टुप्
genderविadj.
उल्बणे प्रकटश्चोग्र उद्भटश्चोत्कटप्रकौ ।उद्धतः पण्डितश्चण्डः प्रलयश्च प्रतापवान् ॥ ६७८ ॥
अनुष्टुप्
genderविadj.
उष्णं तिग्मं खरं तीक्ष्णं चण्डं तीव्रं तथा पटुः ।मङ्गलोऽङ्गारको भौम आरो वक्रः कुजः स्मृतः ॥ ७३ ॥
अनुष्टुप्
genderविadj.
पुरी संयमिनी तस्य प्रतीहारस्तु वैध्यतः ।दासस्तस्य महाचण्डः चण्डस्तथा यमस्य वै ॥ २१० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderपुंmasc.
अत्यन्तकोपनो लोकः चण्डश्चेति निगद्यते ।क्षुधितो जिघत्सुराख्यातो बुभुक्षितोऽशनायितः ॥ ५८२ ॥
अनुष्टुप्metre not read in every line
genderविadj.
चण्डश्चेति हि नामानि मन्यन्ते पण्डितैः पुनः ।ईषदुष्णः कदुष्णश्च कोष्णः कवोष्ण इत्यपि ॥ २५१८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderविadj.
धूमोर्णा यमपत्नी स्यात् चित्रगुप्तश्च लेखकः ।अथ चण्ड-महाचण्डौ यमानुचरकिङ्करौ ॥
अनुष्टुप्
genderपुंmasc.
कवोष्णं कोष्णं मन्दोष्णं कदुष्ण तद्वति त्रिषु ।तीक्ष्मं तिग्मं खरं चण्डममूनि त्रिषु तद्वति ॥
अनुष्टुप्metre not read in every line
genderविadj.
क्रोधनः कोपनः कोपी तथाऽमर्षण इत्यपि ।अत्यन्तकोपने चण्डो घूर्णिते प्रचलायितः ॥
अनुष्टुप्
genderविadj.
तथा तिग्मोग्रतीक्ष्णोष्णतीव्रचण्डखराणि च ।माठरः पिङ्गलो दण्डश्चण्डांशोः पार्श्ववर्तिनः ॥ १७५ ॥
अनुष्टुप्
genderविadj.
धीरे धृष्णुवियातौ धृष्णग्दधृषौ प्रगल्भधृष्ठौ च ।क्रोधनमर्षणकुपितक्रुद्धा रुष्टोऽतिकोपनश्चण्डः ॥ १५७७ ॥
गीतिः
genderविadj.
तस्य दूतस्तु चण्डः स्यात् सुखावरुणपट्टणे ।वायुर्मर्को विधूतः स्यात् सोमज्येष्ठौ धनाधिपे ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
क्रोधीशो वारणश्चण्डः शङ्का तून्मत्तभैरवः ।ज्वालामुखो रक्तदंष्ट्रोऽसिताङ्गो बलयामुखः ॥
अनुष्टुप्
genderपुंmasc.
मन्दोऽस्य कान्ता धूमोर्णा चित्रगुप्तस्तु लेखकः ।भृत्यौ चण्डमहाचण्डौ कालीमी तु विचारभूः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
अथ चण्डो महाचण्डः कुशाण्डी कङ्कणप्रियः ।मज्जनोन्मज्जनौ छागच्छागमेषौ महाघसः ॥
अनुष्टुप्
genderपुंmasc.
तीक्ष्णश्चण्डोल्बणप्रोन्द्रकरालिविकरालिनः ।मन्दोष्णमोष्णं कोष्णञ्च कवोष्णञ्च कदुष्णवत् ॥ ९ ॥
अनुष्टुप्
genderविadj.
प्रणेयः प्रश्रितो वश्यो विधेयो निभृतो यतः ।क्रोधनः कोपनोऽमर्षी चण्डस्तु भृशकोपनः ॥ ३२ ॥
अनुष्टुप्
genderविadj.
वीर्ये च मुष्के शकले तु खण्डो-ऽस्त्री रत्नदोषेक्षुविकारयोश्च ।चण्डस्तु दैत्येऽन्तकसेवके चस्यात्तिन्त्रिणीपादपकोपनेषु ॥ ७३ ॥
इन्द्रवज्रा
चण्डः शमनदूते ना दैत्ये च तित्तिडीद्रुमे ।चण्डी भवान्यां हिंस्रायां कोपनायाञ्च योषिति ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
चण्डा धनहरी शङ्खपुष्प्योश्च कोपन त्रिषु ।चूडा शिखायां वडभौ शिखर करभूषणे ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 4, syllable 2 ख (wrong syllable)
meaningsकोपन
चण्ड as a meaning in nānārtha verses
- कोषकल्पतरु वृष्णिदेष्णुर्दातरि दुर्दमे च परवत् गेष्णुर्नटे गायके वृष्णिर्यादवमेषयोस्त्रिषु पुनः पाखण्डचण्डार्थकः । पश्चाद्भागकपादमूलसमदस्त्रीकुम्भिकासु द्वयोः पार्ष्णिः श्रेणिरभिन्नशिल्पिनिकरे पङ्क्तौ स्त्रियां पुंसि च ॥ १४ ॥ Koṣakalpataru 6.15.14
- कोषकल्पतरु कुन्तस्वान्तं भवेच्चेतसि गह्वरे च प्रासे तु चण्डे च गवेधुकायाम् । कुन्तः स्त्रियां गुग्गुलुपादपे च स्यात्सल्लकीपाण्डुवधूगतश्च ॥ ३२ ॥ Koṣakalpataru 6.16.32
- शिवकोष धूर्तधूर्तं तु खण्डलवणे धूर्तो धुस्तूरचण्डयोः । नतः कुटन्नटे पुंसि क्लीबं कालानुसार्यके ॥ १८१ ॥ Śivakoṣa 12.1.181
- शब्दरत्नावली वृष्णिवृष्णिर्ना यादवे मेषे त्रिषु पाषण्डचण्डयोः । वेणीकेशबन्धने स्यान्नदीभिद्देवताभिदोः ॥ Śabdaratnāvalī 7.15.17
- तन्त्राभिधान खकः क्रोधीशो मुखं चक्री व्रतदेवः सुरो रविः । ख-श्चण्डो देवि! चण्डेश ऋद्धिश्चैव तथा गदी ॥ १३ ॥ Tantrābhidhāna 1.13
- तन्त्राभिधान ङङः शङ्खो भैरवश्चण्डो बिन्दूत्तंसः शिशुप्रियः । एकरुद्रो दक्षनखः खर्परो विषयस्पृहा ॥ ६९ ॥ Tantrābhidhāna 2.22.69
- तन्त्राभिधान यआग्नेयो व्यापकस्त्यागो होमो यानं प्रमा सुखम् । चण्डः सर्वेश्वरी धूमश्चामुण्डा सुमुखेश्वरी ॥ १४१ ॥ Tantrābhidhāna 2.43.141
- तन्त्राभिधान गअ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी, ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री, ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी, ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी, अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः, घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः, ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः, ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः, थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी, प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी, म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी, व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः, ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥ Tantrābhidhāna 4.1