सुधांशु
sudhāṃśuपुं · masc.In 6 kośas: 6 synonym verses, 5 as a meaning of another word.
हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ।अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥ १४ ॥द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ।
अनुष्टुप्
genderपुंmasc.
चन्द्रः सुधांशुः शुभ्रांशुः कमलाग्रज इत्यपि ।कपर्दीशेखरः कञ्जः कमलीति निगद्यते ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
चन्द्रश्चन्दश्चन्दिरश्चद्रमाः सइन्दुः सिन्धूत्थः सुधांशुः सुधासूः ।तारापीडस्तारकेशो द्विजेशः ।राजा सोमः पक्षजन्मा परिज्मा ॥ ५६ ॥
शालिनी
genderपुंmasc.
ग्लौरिन्दुरेणतिलको नीहारांशुर्निशापतिः ।चन्द्रः सुधांशुः शुक्लांशुरोषधीशो भनायकः ॥ ३०९ ॥
अनुष्टुप्
genderपुंmasc.
चन्द्रः शशी सुधांशुश्च विधुरिन्दुश्च चन्द्रमाः ।नक्षत्रेशः निशेशश्च निशारत्नं निशाकरः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
चन्द्रो हिमांशुः शुभ्रांशुः सुधांशुर्मृगलाञ्छनः ।मृगाङ्कश्चन्द्रमा इन्दुरब्जः कुमुदबान्धवः ॥
अनुष्टुप्
genderपुंmasc.
सुधांशु as a meaning in nānārtha verses
- कोषकल्पतरु विधुबाधा निषेधेऽपि च दुःख उक्ता सुधा तु मूर्वाविकसास्नुहीषु । विलेपवस्तुन्यमृतेऽथ संधा स्थितौ च संवि[8b]द्यथ लालसायाम् । श्रद्धातिभक्तौ क्रमतस्तु वृद्धौ स्पर्धापि संघर्षणसाम्ययोः स्यात् । मुग्धोऽन्यवत्सुन्दरमूढयोः स्या- द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥ Koṣakalpataru 6.20.64
- कोषकल्पतरु राजन्अहौ तुरंगेऽप्यथ राज्ञि भोगी स्यान्नापिते ग्रामपुरस्कृतेऽहौ । स्त्रियां तु हित्वा महिषीं नृपस्य दारेषु राजा तु नृपे सुधांशौ ॥ ८३ ॥ Koṣakalpataru 6.21.83
- कोषकल्पतरु क्लेदन्क्लेदा सुधांशौ नरि चौषधौ[18b]च स्नेहा च मित्रे नरि शीतरश्मौ । आत्मा नरि स्याद्धृतिबुद्धिशील- ब्रह्मप्रयत्नेषु वपुर्हृदोश्च । व्यावर्तने स्यात्परतश्च काले- ऽथाध्वा तु संस्थानपथोश्च शास्त्रे ॥ ८५ ॥ Koṣakalpataru 6.21.85
- कोषकल्पतरु खदिरनल्यौषधौ स्त्री छिदिरस्तु वह्नौ खड्गे कुठारे नरि रज्जुगोऽपि । ना वालपत्रे खदिरः सुधांशौ स्त्रियां तु शाकस्य विशेष एषः [54a] ॥ १३ ॥ Koṣakalpataru 6.27.13
- शब्दरत्नावली चन्द्रत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10