कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मृगाङ्क

mṛgāṅkaपुं · masc.

In 8 kośas: 8 synonym verses, 3 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.16
हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ।अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥ १४ ॥द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.43 · p. 6
द्विजराजो रजनिकरः पीयूषरुचिर्निशीथिनीनाथः ।जैवातृको मृगाङ्को विधुश्च दाक्षायणीरमणः ॥ ४३ ॥
आर्या
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त चन्द्रनामानि Gaṇitanāmamālā 7.59 · p. 4
अब्जो राजा शशिश्चन्द्रो मृगाङ्करजनीकरः ।रजनीशो यामिनीशः क्षपाकरो निशाकरः ॥ ५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 179 · p. 85
अवश्यायं तुषारं च प्रालेयं तुहिनं हिमम् ।नीहारं तत्करं विद्धि मृगाङ्कं रोहिणीपतिम् ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.100 · p. 17
ग्लौर्मृगाङ्को द्विजपत्तिः शशभृत्कौमुदीपतिः ।छायाभृत्तारकानाथो निशानाथोऽपि कथ्यते ॥ १०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
genderपुंmasc.
संसारावर्त Saṃsārāvarta · विक्रमादित्य Saṃsārāvarta 10 · p. 467
सिन्धूत्थरात्रिमणिदर्शविपन्मृगाङ्कविक्रस्रपर्वकरपारदविप्रराजः ॥ १० ॥
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.66 · p. 8
तिमिरारिर्दिनकरो यमुनाजनकोऽरुणः ।चन्द्रः सोमो मृगाङ्को ग्लौर्हिमांशुश्चन्द्रमाः शशी ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.191 · p. 14
चन्द्रो हिमांशुः शुभ्रांशुः सुधांशुर्मृगलाञ्छनः ।मृगाङ्कश्चन्द्रमा इन्दुरब्जः कुमुदबान्धवः ॥
अनुष्टुप्
genderपुंmasc.

मृगाङ्क as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् राजन्इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥ Amarakośa 3.3.111
  • शब्दरत्नावली शितमयुखत्रिषु स्यात् मलिनमुखः क्रूरगोपुच्छवह्निषु । अथ शितमयुखस्तु घनसारमृगाङ्कयोः ॥ Śabdaratnāvalī 7.2.19
  • शब्दरत्नावली भरण्युपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46