कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Bālaprabodhikā

बालप्रबोधिका Bālaprabodhikā

357 verses · 2,901 words tagged · 725 marked doubtful (dashed)

द्वितीयोपदेशः

इति नत्कीरविरचितायां बालप्रबोधिकायां प्रथमोपदेशः ।

आकाशश्च नभो व्योम गगनं सुरवर्त्म खम् ।महाबिलं शब्दगुणं तारकापथमित्यपि ॥ ३२ ॥
2.32 · p. 68
अनुष्टुप्
वायुगर्भः सूर्यरथो वियद्विष्णुपदं पदम् ।दिग्दिशाशाककुब्दीर्णिर्हरिद्देववधूः सरिः ॥ ३३ ॥
2.33 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सू (wrong syllable)
आग्नेयी नु चिराशा स्यान्नैर्ऋतीदिक् तु गन्धकी ।मारुत्यनन्ता शार्वी तु शालाक्षा तु पराजिता ॥ ३४ ॥
2.34 · p. 68
अनुष्टुप्
कौबेर्यादिषु तूदीची प्राच्यवाची प्रतीच्यपि ।ब्राह्मी तूर्ध्वा धनाग्निः स्यान्नारकी चाथ रार्कुटा ॥ ३५ ॥
2.35 · p. 69
अनुष्टुप्
दिङ्मण्डलं चक्रवालं दिगन्तः करिशोलुकम् ।ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३६ ॥
2.36 · p. 69
अनुष्टुप्
पुष्पदन्तः सार्वभौमः सुप्रतीकस्तु दिग्गजाः ।करिण्योभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ३७ ॥
2.37 · p. 69
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 भ्र (wrong syllable)
ताम्रपर्णी सुदन्ती स्यादञ्जना चाञ्जनावती ।अर्कः सूर्योऽर्यमा सूरो द्वादशात्मा दिवाकरः ॥ ३८ ॥
2.38 · p. 69
अनुष्टुप्
मृतण्डः सविता भानुः स्वर्णरेता दिवाधिपः ।मार्तण्डः पद्मिनीकान्तः चक्रवर्ती सदागतिः ॥ ३९ ॥
2.39 · p. 69
अनुष्टुप्
शिंशुमाराग्रनिलयः तपनः पद्मबान्धवः ।तस्य जाया यामवती सुतस्तस्य सुरोत्तमः ॥ ४० ॥
2.40 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
चन्द्रः सुधांशुः शुभ्रांशुः कमलाग्रज इत्यपि ।कपर्दीशेखरः कञ्जः कमलीति निगद्यते ॥ ४१ ॥
2.41 · p. 69
अनुष्टुप्
संविदालभनः शेषः सद्राजः सरसः शशी ।परिभ्राड्रेवतीकान्तो निशानाथः शितद्युतिः ॥ ४२ ॥
2.42 · p. 69
अनुष्टुप्
कलापश्च कलावालः कमणीचकमित्यपि ।चन्द्रिका कौमुदी ज्योत्स्ना विशदावन्यलः पुमान् ॥ ४३ ॥
2.43 · p. 69
अनुष्टुप्
तस्य भेदे प्रसादः स्यात् शरज्ज्योत्स्ना तु शीतला ।वसन्ते पुष्पिणी सर्वलतिका मोदिनीति च ॥ ४४ ॥
2.44 · p. 69
अनुष्टुप्
ताराभं रात्रिजं धिष्ण्यं न ना नक्षत्रमित्यपि ।कुजारमङ्गलाङ्गाराः लोहिताङ्गो धरासुतः ॥ ४५ ॥
2.45 · p. 69
अनुष्टुप्
बुधे हर्षलकश्चान्द्रागीष्पत्याङ्गीरसौ गुरुः ।सुरेज्यतारकाकान्तः सर्वभाषाधिनायकः ॥ ४६ ॥
2.46 · p. 69
अनुष्टुप्
शुक्रो दितो दिवाचारः पूर्वदेवगुरुः कविः ।मन्दः खोडोऽसितक्रोडः छायापुत्रः शनैश्चरः ॥ ४७ ॥
2.47 · p. 70
अनुष्टुप्
सौरिः स्थिरगतिः कोणो दीर्णाङ्गो युगवर्तकः ।श्रुतकर्मा नीलवासा वक्रः कोलस्थितः शनिः ॥ ४८ ॥
2.48 · p. 70
अनुष्टुप्
स्वर्भानुग्रहकल्लोलः सैंहिकेयो विधुन्तुदः ।राहुरभ्रपिशाचश्च केतवो विकचाः कृशाः ॥ ४९ ॥
2.49 · p. 70
अनुष्टुप्
धूमजाः शिखिनो ब्रह्मपुत्राः श्रीमन्त आहिकाः ।कालोsनेहा च दिष्टश्च सूक्ष्मस्त्रितुटीस्तुटीः ॥ ५० ॥
2.50 · p. 70
अनुष्टुप्metre not read in every lineLatin letters: s
रजनी यामिनी याम्या त्रियामा क्षणदा क्षपा ।तमी तमस्विनी रात्रिः शर्वरी च विभावरी ।आद्यक्तं तिमिरं ध्वान्तं तामिस्रं शार्वरं तमः ॥ ५१ ॥
2.51 · p. 70
अनुष्टुप्