स्त्रीधर्म
strīdharmaपुं · masc.In 4 kośas: 4 synonym verses.
राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्तवम् ।रजस्तत्कालस्तु ऋतुः सुरतं मोहनं रतम् ॥ ५३६ ॥संवेशनं संप्रयोगः संभोगश्च रहो रतिः ।ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ ५३७ ॥व्यवायो मैथुनं स्त्रीपुंसोर्द्वंद्वं मिथुनं च तत् ।
अनुष्टुप्
genderपुंmasc.
उच्चभाला मरुण्डा स्यात्षण् रजः पुष्पमार्त्तवम् ।स्त्रीधर्मो ना रजोऽपि स्यादथ जाया कुटुम्बिनी ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
ऋतुमत्यप्युदक्यावीः स्त्रीधर्मिण्यार्तवः पुनः ।[77a]स्त्रीधर्मश्च रजः पुष्पमृतुस्तत्समयो भवेत् ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
आर्त्तवं कुसुमं पुष्पं स्त्रीधर्मश्च रजस्तथा ॥ ८५५ ॥
अनुष्टुप्
genderपुंmasc.