आर्तव
ārtavaक्ली · neut.In 11 kośas: 9 synonym verses, 4 as a nānārtha head word, 8 as a meaning of another word.
राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्तवम् ।रजस्तत्कालस्तु ऋतुः सुरतं मोहनं रतम् ॥ ५३६ ॥संवेशनं संप्रयोगः संभोगश्च रहो रतिः ।ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ ५३७ ॥व्यवायो मैथुनं स्त्रीपुंसोर्द्वंद्वं मिथुनं च तत् ।
अनुष्टुप्
genderक्लीneut.
विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला ।स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् ।
अनुष्टुप्
genderक्लीneut.
ऋतुमत्यप्युदक्यावीः स्त्रीधर्मिण्यार्तवः पुनः ।[77a]स्त्रीधर्मश्च रजः पुष्पमृतुस्तत्समयो भवेत् ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
रजः पुष्पं स्त्रियो धर्म आर्तवं मोहनं रतम् ।सुरतं संप्रयोगश्च संवेशनं रहोरती ॥ २०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
genderक्लीneut.
आर्तवं पौतवं साध्वसं साहसकशेरुणी ।शयातुवीक्षपर्वाणि ककुन्महदहानि च ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
अव्यात्रेयी ऋतुमती पुष्पहासा रजस्वला ।ऋतुः स्यात् कुसुमं पुष्पमार्तवञ्च रजोरजम् ॥
अनुष्टुप्
genderक्लीneut.
निष्कल्यपि च स्त्रीधर्मे आर्तवं ऋतुसंयुतम् ।रजः सान्तं रजोऽदन्तो ना गुणेऽप्यथ मैथुने ॥ १३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
genderक्लीneut.
स्यात् स्त्रीधर्मिण्युदक्याविरात्रेयी मलिनी तथा ।रजस्वला पुष्पवती ऋतुमत्यार्तवं रजः ॥ १०४१ ॥
अनुष्टुप्
genderक्लीneut.
ऋतुः पुंस्यार्तवं रक्तं पुष्पं चाथानृतुर्वधूः ।निष्कलापन्नसत्त्वा तु स्त्र्यन्तर्वत्नी च गर्भिणी ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
पुष्पाकरे स्त्री त्वतिमुक्तमद्य-दूतीषु च स्यान्मधुशर्करायाम् ।लोध्रे मुनौ गालव आर्तवं तुऋतूद्भवे स्त्रीरजसि प्रसूने ॥ २४ ॥
उपजातिः
वस्तुमात्रे त्वृतूत्थे स्याद् भेद्यलिङ्गमिति स्मृतम् ।यस्य प्राप्तं ऋतुकालस्तस्मिंश्चाथ नपुंसकम् ॥ १९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 तु (wrong syllable)
doubtful
आर्तव as a meaning in nānārtha verses
- धरणिकोश रजस्तमो ध्वान्तं तमो राहुस्तमः शोकस्तमो गुणः । रजो गुणं रजो रेणुर्योषितामार्तवं रजः ॥ Dharaṇikośa 31.2.5
- कोषकल्पतरु रजस्रजो गुणे रेणुपरागयोश्च स्यादार्तवेऽन्त्येऽथ पुमानदन्तः । क्षीरे च नीरे च पयो वयस्तु खगे च बाल्यादिषु यौवने च ॥ २ ॥ Koṣakalpataru 6.31.2
- नानार्थार्णवसंक्षेप पुष्पपुण्ड्रा पुष्पं तु कुसुमे क्लीबमन्ये तु पुंस्यपि । आर्तवे योषितां ना तु विकासे स्त्री तु पुष्प्यसौ ॥ ७८८ ॥ Nānārthārṇavasaṃkṣepa 2.5.788
- शब्दरत्नावली ऋतुतुरार्तवदीप्त्योश्च वर्षादिषट्सु पुंस्ययम् । एतः कुर्वरवर्णे स्यादागते हरिणे क्वचित् ॥ Śabdaratnāvalī 7.16.6
- शब्दरत्नावली फलफलं हेतुसमुत्थे स्याद्व्युष्टौ फलकलामयोः । शष्यकक्कोलवाणाग्रजातीफलार्त्तवेषु च ॥ क्लीबलिङ्गं स्त्रियामेव प्रियङ्गौ तु फलीति च । फालः सीरोपकरणे त्रिषु कार्पासवाससि ॥ Śabdaratnāvalī 7.28.25
- शब्दरत्नाकर रजस्चन्द्रक्षत्रिययोः राजा लताभेदे नृपे प्रभौ । रजः पांस्वार्ताहःसु रहो याभरहस्ययोः ॥ १९८७ ॥ Śabdaratnākara 4.1.1987
- त्रिकाण्डशेष रजस्यागे च मद्यसन्धाने स्नाने चाभिषवः पुमान् । मृतावसत्त्वे चाभावः स्याद्रजः पुष्पमार्तवम् ॥ ४१२ ॥ Trikāṇḍaśeṣa 3.3.412
- वैजयन्ती रजस्रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ मितादिषु । सौन्दर्ये च स्वभावे च शरद्रेण्वार्तवे रजः ॥ २८ ॥ Vaijayantī 6.3.28