कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Tantrābhidhāna

तन्त्राभिधान Tantrābhidhāna

821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)

मुद्रानिघण्टु (2/2)

श्रीशिव उवाच ।

शृणु देवि प्रवक्ष्यामि मुद्राः सर्वार्थसिद्धिदाः ।याभिर्विरचिताभिस्तु सान्निध्या त्रिपुरा भवेत् ॥ १२० ॥
12.120 · p. 79
अनुष्टुप्
-----------------------------------परिवर्त्य करौ स्पृष्टावङ्गुष्ठौ कारयेत् समौ ।अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती ॥ १२१ ॥
12.121 · p. 79
अनुष्टुप्metre not read in every line
कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि ।त्रिखण्डेयं समाख्याता त्रिपुराह्वानकर्मणि ॥ १२२ ॥
12.122 · p. 80
अनुष्टुप्
मध्यमामध्यगे कृत्वा कनिष्ठेऽङ्गुष्ठरोधिते ।तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके ।एषा तु प्रथमा मुद्रा सर्वसंक्षोभकारिणी ॥ १२३ ॥
12.123 · p. 80
अनुष्टुप्
एतस्या एव मुद्राया मध्यमे सरले यदा ।क्रियेते परमेशानि तदा विद्राविणी भवेत् ॥ १२४ ॥
12.124 · p. 80
अनुष्टुप्
मध्यमा तर्जनीभ्यान्तु कनिष्ठानामिके समे ।अङ्कुशाकाररूपाभ्यां मध्यमे परमेश्वरि ॥ १२५ ॥
12.125 · p. 80
अनुष्टुप्
अङ्गुष्ठं तु नियुञ्जीत कनिष्ठानामिकोपरि ।इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षिणी मता ॥ १२६ ॥
12.126 · p. 80
अनुष्टुप्
पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती ।परिवर्त्य क्रमेणैव मध्यमे तदधोगते ॥ १२७ ॥
12.127 · p. 80
अनुष्टुप्
क्रमेण देवि तेनैव कनिष्ठानामिके तथा ।संयोज्य निबिडाः सर्वा अङ्गुष्ठस्याग्रदेशतः ।मुद्रेयं परमेशानि सर्ववश्यकरी मता ॥ १२८ ॥
12.128 · p. 80
अनुष्टुप्
सम्मुखौ तु करौ कृत्वा मध्यमा मध्यगेऽन्त्यजे ।अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् ॥ १२९ ॥
12.129 · p. 80
अनुष्टुप्
दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमानखदेशगौ ।मुद्रैषोन्मादिनी नाम क्लेदिनी सर्वयोषिताम् ॥ १३० ॥
12.130 · p. 80
अनुष्टुप्
-----------------------------------अस्यान्त्वनामिकायुग्ममधः कृत्वाऽङ्कुशाकृति ।तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ।इयं महाङ्कुशा मुद्रा सर्वकामार्थसाधिनी ॥ १३१ ॥
12.131 · p. 80
अनुष्टुप्metre not read in every line
सव्यं दक्षिणदेशे तु सव्यदेशे तु दक्षिणम् ।बाहुं कृत्वा महादेवि हस्तौ संपरिवर्त्य च ॥ १३२ ॥
12.132 · p. 81
अनुष्टुप्
कनिष्ठानामिके देवि युक्ते तेन क्रमेण च ।तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ॥ १३३ ॥
12.133 · p. 81
अनुष्टुप्
अङ्गुष्ठौ तु महेशानि सरलावपि कारयेत् ।इयं सा खेचरी नाम्ना मुद्रा सर्वोत्तमा मता ॥ १३४ ॥
12.134 · p. 81
अनुष्टुप्
परिवर्त्य करौ स्पृष्ट्वावर्धचन्द्राकृती प्रिये ।तर्जन्याङ्गुष्ठयुगलं युगपत् कारयेत्ततः ॥ १३५ ॥
12.135 · p. 81
अनुष्टुप्
अधः कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् ।तथैव कुटिले योज्ये सर्वाधस्तादनामिके ।बीजमुद्रेयमचिरात् सर्वसम्पद्विवर्द्धिनी ॥ १३६ ॥
12.136 · p. 81
अनुष्टुप्
मध्यमे कुटिले कृत्वा तर्जन्युपरि संस्थिते ।अनामिके मध्यगते तथैव हि कनिष्ठिके ॥ १३७ ॥
12.137 · p. 81
अनुष्टुप्
सर्वा एकत्र संयोज्या अङ्गुष्टपरिपीडिताः ।एषा तु प्रथमा मुद्रा योनिमुद्रेयमीरिता ॥ १३८ ॥
12.138 · p. 81
अनुष्टुप्
अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिताङ्गुली ।अङ्गुष्ठ-मध्यमे भूयः संलग्ने सुप्रसारिते ।महामुद्रेति विख्याता परा मुक्तिकरी तथा ॥ १३९ ॥
12.139 · p. 81
अनुष्टुप्
एता मुद्रा महेशानि त्रिपुराया मयोदिताः ।-----------------------------------पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः ॥ १४० ॥
12.140 · p. 81
अनुष्टुप्
वामहस्तेन मुष्टिन्तु बद्ध्वा कर्णप्रदेशके ।तर्जनीं सरलां कृत्वा भ्रामयेन्मनुवित्तमः ।सौभाग्यदण्डिनी मुद्रा न्यासकालेऽपि सूचिता ॥ १४१ ॥
12.141 · p. 82
अनुष्टुप्
अन्तरङ्गुष्ठमुष्ट्या तु निरुध्य तर्जनीमिमाम् ।रिपुजिह्वाग्रहा मुद्रा न्यासकाले तु सूचिता ॥ १४२ ॥
12.142 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध्य (wrong syllable)
बद्ध्वा तु योनिमुद्रां वै मध्यमे कुटिले कुरु ।अङ्गुष्टौ च तदग्रे तु मुद्रेयं भूतिनी मता ॥ १४३ ॥
12.143 · p. 82
अनुष्टुप्
वाममुष्टिं विधायाथ तर्जनी-मध्यमे ततः ।प्रसार्य तर्जनीमुद्रा निर्दिष्टा वज्रपाणिना ॥ १४४ ॥
12.144 · p. 82
अनुष्टुप्
इतीदं कथितं भद्रे मुद्राणां लक्षणं स्फुटम् ।पूजाकाले जपे स्नाने देवतासन्निधायकम् ।गोप्यं कुरु महादेवि न देयं कितवे शठे ॥ १४५ ॥
12.145 · p. 82
अनुष्टुप्