All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
प्रकारान्तरमन्त्राभिधान · य
य (50) ।
यो वाणी वसुधा वायुर्विकृतिः पुरुषोत्तमः ।युगान्तः श्वसनः शीघ्रं धूम्रार्चिः प्राणिसेवकः ॥ १३९ ॥
2.43.139 · p. 19
अनुष्टुप्
शङ्खा भ्रमो जटी लोला वायुवेगी यशस्करः ।सङ्कर्षणः क्षपा बालो हृदयं कपिला प्रभा ॥ १४० ॥
2.43.140 · p. 19
अनुष्टुप्
आग्नेयो व्यापकस्त्यागो होमो यानं प्रमा सुखम् ।चण्डः सर्वेश्वरी धूमश्चामुण्डा सुमुखेश्वरी ॥ १४१ ॥
2.43.141 · p. 19
अनुष्टुप्
त्व(वे)गात्मा मलयो माता हंसिनी भृङ्गनायकः ।चेतना शोषको मीनो धनिष्ठाऽनङ्गवेदिनी ॥ १४२ ॥
2.43.142 · p. 19
अनुष्टुप्
मेषः सोमः पङ्क्तिनामा पापहा प्राणसंज्ञकः ॥ १४३ ॥
2.43.143 · p. 19