All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
प्रकारान्तरमन्त्राभिधान · अः
अः (30) ।
अः कण्ठको महासेनः कला पूर्णामृता हरिः ।इच्छा भद्रा गणेशश्च रतिर्विद्या सुखं मुखम् ॥ ५३ ॥
2.17.53 · p. 10
अनुष्टुप्
द्विबिन्दू रसना सोमोऽनिरुद्धो दुःखसूचकः ।द्विजिह्वः कुण्डलं वक्त्रं सर्गः शक्तिर्निशाकरः ॥ ५४ ॥
2.17.54 · p. 10
अनुष्टुप्