All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
मातृकानिघण्टु
[5]महीदासविरचित-मातृकानिघण्टुः । (Sloka count: 1+52+6)
श्रीगणेशं नृसिंहं तं भारतीमीश्वरं गुरुम् ।नत्वा वक्ष्ये मातृकाणां निघण्टुं बालबुद्धये ॥ १ ॥
5.1 · p. 35
अनुष्टुप्
ध्रुवस्तारस्त्रिवृद्ब्रह्म वेदाद्य(दि)स्तारकोव्ययः ।प्रणवश्च त्रिमात्रोऽपि ओङ्कारो ज्योतिरादिमः ॥ २ ॥
5.2 · p. 35
अनुष्टुप्
श्रीकण्ठः केशवः कण्ठो निवृत्तिश्च स्वरादिकः ।अ-कारो मातृकाद्यश्च वात इत्यपि कीर्त्तितः ॥ ३ ॥
5.3 · p. 35
अनुष्टुप्
नारायणस्तथाऽनन्तो मुखवृत्तं गुरुस्तथा ।विष्णुशय्या तथा शेषो दीर्घ आ-कार एव च ॥ ४ ॥
5.4 · p. 35
अनुष्टुप्
माधवः सूक्ष्मसंज्ञश्च विद्या दक्षिणलोचनम् ।गन्धर्वः पाञ्चजन्यश्च इ-कारश्च मखाङ्कुरः(न्तकः) ॥ ५ ॥
5.5 · p. 35
अनुष्टुप्
गोविन्दश्च त्रिमूर्तीशः शान्तिः स्याद्वामलोचनम् ।नृसिंहास्त्रं तथा माया ई-कारोऽपि सुरेश्वरः ॥ ६ ॥
5.6 · p. 35
अनुष्टुप्
अमरेशस्तथा विष्णुरिन्धिका च गजाङ्कुशः ।दक्षकर्णश्च विज(न)य उ-कारो मन्मथाभिधः ॥ ७ ॥
5.7 · p. 35
अनुष्टुप्
अर्घीशो दीपिका वामश्रवणो मधुसूदनः ।इन्द्रश्चापः षण्मुखश्च ऊ-कारो रक्षणाभिधः ॥ ८ ॥
5.8 · p. 35
अनुष्टुप्
रेचिका दक्षनासा च भारभूतिस्त्रिविक्रमः ।देवमाता रिपुघ्नश्च ऋ-कारस्तपनः स्मृतः ॥ ९ ॥
5.9 · p. 35
अनुष्टुप्
अतिथीशो वामनश्च मोचिका वामनासिका ।दैत्यमाता च दैवज्ञ ॠ-कारस्त्रिपुरान्तकः ॥ १० ॥
5.10 · p. 35
अनुष्टुप्
-----------------------------------श्रीधरश्चामरः(परा) स्थाणुर्दक्षगण्डस्त्रिवेद(देव)कः ।एकाङ्घ्रिर्वज्रदण्डश्च व्योमार्धं ऌ-स्वरः स्मृतः ॥ ११ ॥
5.11 · p. 35
अनुष्टुप्metre not read in every line
हृषीकेशो हरः सूक्ष्मो वामगण्डः कुबेरदृक् ।अर्द्धर्च्चौ नीलचरण ॡ-कारश्च त्रिकण्ट(कूट)कः ॥ १२ ॥
5.12 · p. 36
अनुष्टुप्
झिण्टीशः पद्मनाभश्च शक्तिर्दक्षः क्षमाऽमृतम् ।भग ऊर्ध्वं कामरूप ए-कारश्च त्रिकोणकः ॥ १३ ॥
5.13 · p. 36
अनुष्टुप्
ज्ञानामृता भौतिकश्च धरा दामोदरस्तथा ।वागीशो व(ध)र्म भयद ऐ-कारस्त्रिपुरस्तथा ॥ १४ ॥
5.14 · p. 36
अनुष्टुप्
सद्योजातो वासुदेवो रुद्रो दन्तस्त्रिमातृ(त्र)कः ।आप्यायनी मन्त्रनाथ ओ-कारो न(ना)गसंज्ञकः ॥ १५ ॥
5.15 · p. 36
अनुष्टुप्
सङ्कर्षणोऽनुग्रहेशो मुरारिर्व्यापिनी तथा ।अधोदन्तगतो मायी नृसिंहाङ्गं तथौ-स्वरः ॥ १६ ॥
5.16 · p. 36
अनुष्टुप्
अक्रूरो व्योमरूपश्च प्रद्युम्नश्चन्द्रसंज्ञकः ।अनुस्वारस्तथा बिन्दुरं-कारश्च शिरोगतः ॥ १७ ॥
5.17 · p. 36
अनुष्टुप्
अनन्तश्च महासेनोऽनिरुद्धो रसव(ना)र्णकः ।कन्यास्तननिभः सर्गो विसर्गश्चान्तिमस्वरः ॥ १८ ॥
5.18 · p. 36
अनुष्टुप्
(एतानि स्वरनामानि । मातृका व्यञ्जननामानि वच्मि ॥)
क्रोधीशो धातृसंज्ञश्च चक्री सृष्टिः करादिगः ।वर्गादिर्माया देवेशः क-कारः कामगः स्मृतः ॥ १९ ॥
5.19 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
ऋद्धिर्गदी च चण्डेशः खेटो दक्षिणकूर्परः ।कैटभश्चैव मातङ्गः संहारः खा-र्णकः स्मृतः ॥ २० ॥
5.20 · p. 36
अनुष्टुप्
-----------------------------------स्मृतिः पञ्चान्तकः शार्ङ्गी गणेशो मणिबन्धगः ।गोमुखो गजकुम्भश्च ग-कारः सिंहसंज्ञकः ॥ २१ ॥
5.21 · p. 36
अनुष्टुप्metre not read in every line
खड्गी शिवोत्त(न)मो मेधा दक्षिणाङ्गुलिमूलकम् (गः) ।घनो घनस्वरश्चैव घ-कारो ङादिमः स्मृतः ॥ २२ ॥
5.22 · p. 37
अनुष्टुप्
शङ्खको रुद्रकान्तिश्च दक्षाङ्गुल्यग्रसंस्थितः ।क्लीबवक्त्रञ्च भा(भ)द्रेशो ङ-कारश्चानुनासिकः ॥ २३ ॥
5.23 · p. 37
अनुष्टुप्
हली कूर्मेश्वरो लक्ष्मीर्वामबा(ह्वादिग)हुर्द्दिशस्तथा ।चि(त्ताचा)त्र-वारी चञ्चलश्च च-कारः संस्मृतो बुधैः ॥ २४ ॥
5.24 · p. 37
अनुष्टुप्
एकनेत्रश्च मुषली वामकूर्परगो द्युतिः ।त्रिबिन्दुकस्तथाचारी छ-कारः प्रेक्ष(श्लेष्म)काभिधः ॥ २५ ॥
5.25 · p. 37
अनुष्टुप्
स्थिरो जयन्तो जयजः शूली च चतुराननः ।मणिबन्धगतो वामो ज-कारो जप(न)को मतः ॥ २६ ॥
5.26 · p. 37
अनुष्टुप्
स्थितिः पाशी तथाऽजे(हे)शो वामाङ्गुलितलस्थितः ।स्वस्तिकः खण्डसंज्ञश्च झ-कारो जान्तसंज्ञकः ॥ २७ ॥
5.27 · p. 37
अनुष्टुप्
वामाङ्गुल्यग्रतः(गः) सिद्धिरङ्कुशः सर्वसंज्ञकः ।ज्ञप्रियो(प्तिगो) ह्यनुनासश्च ञ-कारश्च निरञ्जनः ॥ २८ ॥
5.28 · p. 37
अनुष्टुप्
जरा मुकुन्दः सोमेशो दक्षपादादिगो मुखम्(कः) ।गजाङ्कुशश्च बालेन्दुरमृताद्यः ट-कारकः ॥ २९ ॥
5.29 · p. 37
अनुष्टुप्
लाङ्गलीशो नदज्ञ(न्दज)श्च पालिनी च कमण्डलुः ।दक्षजानुर(ग)तः स्थायी ठ-कारः स्थविरः स्मृतः ॥ ३० ॥
5.30 · p. 37
अनुष्टुप्
नन्दी क्षान्तिर्धा(र्दा)रकश्च चा(डा)मरो दक्षगुल्फगः ।व्याघ्रपादः शुभाङ्घ्रिश्च ड-कारो भौमजः स्मृतः ॥ ३१ ॥
5.31 · p. 37
अनुष्टुप्
-----------------------------------ईश्वरश्चार्धनारीशो नरः शङ्खान्तराकृतः(तिः) ।दायादोऽङ्गुलिमूलञ्च ढ-श्च सङ्कोचकारकः ॥ ३२ ॥
5.32 · p. 37
अनुष्टुप्metre not read in every line
उमाकान्तो नरकजित् रतिदक्षपदाग्रगः ।निर्वाणस्त्रिगुणाकारस्त्रिरेखो णः समीरितः ॥ ३३ ॥
5.33 · p. 38
अनुष्टुप्
वामोरुर्मीन(र्मूल)निलय आषाढी कामिको हरिः ।तीव्रश्च तरलो नीलस्त-कारः कीर्त्तितो बुधैः ॥ ३४ ॥
5.34 · p. 38
अनुष्टुप्
दण्डीशो वरदः कृष्णो वामजानुगतः स्थिरः ।सौरिश्चापि विशालाक्षी थ-कारः परिकीर्त्तितः ॥ ३५ ॥
5.35 · p. 38
अनुष्टुप्
सत्योऽत्री(शसः श्री)शो ह्लादिनी च वामगुल्फगतस्तथा ।शूलः कुबेरो दाता च द-कारो धादिमः स्मृतः ॥ ३६ ॥
5.36 · p. 38
अनुष्टुप्
मीनेशः सात्वतः प्रीतिर्वामपादाङ्गुलीगतः ।धर्मे(ने)शो धरणीशश्च ध-कारो दान्तिमो मतः ॥ ३७ ॥
5.37 · p. 38
अनुष्टुप्
शर्वो मन्त्रेश्वरो दीर्घो वामपादाङ्गुलाग्रगः ।नरो नदी च नादी च न-कारश्चानुनासिकः ॥ ३८ ॥
5.38 · p. 38
अनुष्टुप्
तीक्ष्णा च लोहितः शूरो दक्षपाणि(र्श्व)श्च पार्थिवः ।पद्मेशो नान्तिमः फादिः प-कारोऽपि प्रकीर्त्तितः ॥ ३९ ॥
5.39 · p. 38
अनुष्टुप्
जनार्दनः शिखी रौद्री वामपार्श्वकृतालयः ।फट्कारः प्रोच्यते सद्भिः फ-कारः पान्तिमस्तथा ॥ ४० ॥
5.40 · p. 38
अनुष्टुप्
छगलण्डो भूधरश्चाभया पृष्ठ(ष्ठं)गतस्तथा ।सुरसो वज्रमुष्टिश्च ब-कारो भादिमोऽपि च ॥ ४१ ॥
5.41 · p. 38
अनुष्टुप्
विश्वमूर्तिर्द्विरण्डेशो निद्रा नाभिगतस्तथा ।भृकुटी च भरद्वाजो भ-कारश्च भयावहः ॥ ४२ ॥
5.42 · p. 38
अनुष्टुप्
-----------------------------------वैकुण्ठश्च महाकालस्तन्द्री(न्त्री) जठरसंस्थितः ।मन्त्रेशो मण्डलो मानी विषं सूर्यो म-कारकः ॥ ४३ ॥
5.43 · p. 38
अनुष्टुप्metre not read in every line
क्षुधा वाणी च वायुस्त्वग् हृद्गतः पुरुषोत्तमः ।यमुना यामुनेयश्च य-कारो मान्तिमः स्मृतः ॥ ४४ ॥
5.44 · p. 39
अनुष्टुप्
क्रोधिनी च भुजङ्गेशो वाली रुधिर-पावकौ ।रोचिष्मान् दक्षिणांशश्च रुचिरो रेफ ईरितः ॥ ४५ ॥
5.45 · p. 39
अनुष्टुप्
क्रिया ककुदो मांसञ्च पिनाकी भूर्बलानुजः ।लम्पटः शक्रसंज्ञश्च वायवीयो ल-कारकः ॥ ४६ ॥
5.46 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दो (wrong syllable)
वाली वामांसनिलयो मेदो वारिद्र-वारुणौ ।हृ(उ)त्कारी जलसंज्ञश्च चण्डीशोऽपि व-कारकः ॥ ४७ ॥
5.47 · p. 39
अनुष्टुप्
मृत्युर्बको वृ(वि)षघ्नश्च हृदो दक्षकरस्थितः ।शङ्ख(ङ्कु)कर्णोऽस्थिसंज्ञश्च श-कारो विद्भिरीरितः ॥ ४८ ॥
5.48 · p. 39
अनुष्टुप्
वृषः श्वेतेश्वरः पीता मज्जा तृड्वामबाहुगः ।षडाननः षडाकारः ष-कारः कीर्त्तितो बुधैः ॥ ४९ ॥
5.49 · p. 39
अनुष्टुप्
भृगुः श्वेतस्तथा हंसो हृदो दक्षिणपादगः ।समयः सामगः शुक्रः सङ्गतिः सा-र्णकः शशी ॥ ५० ॥
5.50 · p. 39
अनुष्टुप्
नभो वराहो नकुली हृदो वामपदः स्थितः(तिः) ।सदाशिवोऽरुणः प्राणो हयग्रीवो ह-कारकः ॥ ५१ ॥
5.51 · p. 39
अनुष्टुप्
हृदयान्नाभिसंस्थानः शिवेशः क(वि)मलोऽसितः ।लघुप्रयत्नश्चोपान्त्यो(त्यो) ळ-कारः प्रोच्यते बुधैः ॥ ५२ ॥
5.52 · p. 39
अनुष्टुप्
संवर्तको नृसिंहश्च हृदयान्मुखसंस्थितः ।अनन्तः परमात्मा च वज्रकायोऽन्तिमः क्ष-कः ॥ ५३ ॥
5.53 · p. 39
अनुष्टुप्
-----------------------------------अथ कादिमते प्रोक्ताः शंकरेण शिवां प्रति ।अकारादि क्षकारान्ता वर्णसंज्ञाः क्रमाद्ब्रुवे ॥ ५४ ॥
5.54 · p. 39
अनुष्टुप्metre not read in every line
वातो मरुच्चाग्निवह्निधरा क्ष्मा जल-वारिणी ।विभुः खञ्च चरः शुचिर्भूर्वनं स्वञ्च शक्तियुक् ॥ ५५ ॥
5.55 · p. 40
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 शु (wrong syllable)
प्राणस्तेजः स्थिरा वार्द्युर्वायुश्चापि प्रभा च ज्या ।कमभ्रं नाद-दावौ च कुः पाथो व्योम तो रयः ॥ ५६ ॥
5.56 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 च (wrong syllable)
शिखी गोत्रा तोय-शून्ये जवी द्युतीरभिस्मृतः ।भूमी रसो नभश्चैव व्याप्तं दाहो रसाऽम्बु चा ॥ ५७ ॥
5.57 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्यु (wrong syllable)
वियत् स्पर्शश्च हृद्धंस इला ग्रासः क्रमाः स्मृताः ।मातृकावर्णसंज्ञास्तु ता ज्ञात्वा चोद्धरेन्मनून् ॥ ५८ ॥
5.58 · p. 40
अनुष्टुप्
ग्रन्थाननेकानालोक्य महीदासेन धीमता ।मातृकाक्षरसंज्ञेयं बद्वा स्वपरबुद्धये ॥ ५९ ॥
5.59 · p. 40
अनुष्टुप्
॥इति श्रीमन्महीदासविरचित मातृका-
निघण्टुः समाप्तः ॥
अयं तावत् वर्णसंज्ञोद्धारप्रकारः -
वातः-अ, गरुत्-आ, अग्निः-इ, वह्निः-ई, धरा-उ, क्ष्मा-ऊ, जलम्-ऋ, वारि-ॠ, विभुः-ऌ, खं-ॡ,
चरः-ए, शुचिः-ऐ, भूः-ओ, वनं-औ, स्वं-अं, शक्तिः-अः, प्राणः-क, तेजः-ख, स्थिरा-ग, वार्यु-घ,
वायुः-ङ, प्रभा-च, ज्या-छ, कम्-ज, अभ्रम्-झ, नादः-ञ, दावः-ट, कुः-ठ, पाथः-ड, व्योम-ढ,
तारकः-ण, शिखी-त, गोत्रा-थ, तोयम्-द, शून्यम्-ध, जवा-न, दुतिः-प, रविः-फ, भूमिः-ब, रसः-भ,
नभः-म, व्याप्तं-य, दाहः-र, रसा-ल, अम्बुधिः-व, वियत्-श, स्पर्शः-ष, रुत्-स, हंसः-ह, इला-क्ष
-----------------------------------
5.60 · p. 40