All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
प्रकारान्तरमन्त्राभिधान · न
न (36) ।
नो गर्जिनी क्षमा सौरिर्वारुणी विश्वपावनी ।मेषश्च सविता नेत्रं दन्तुरो नारदोऽञ्जनः ॥ ११७ ॥
2.37.117 · p. 17
अनुष्टुप्
ऊर्ध्ववासी द्विरण्डश्च वामपादाङ्गुलेर्मु(र्न)खम् ।वैनतेयः स्तुतिर्वर्त्म तरणिर्बलिरागमः ॥ ११८ ॥
2.37.118 · p. 17
अनुष्टुप्
वामनो ज्वालिनी दीर्घो निरीहः सुगतिर्वियत् ।शब्दात्मा दीर्घघोणा च हस्तिनापुर-मेचकौ ॥ ११९ ॥
2.37.119 · p. 17
अनुष्टुप्