All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
प्रकारान्तरमन्त्राभिधान · ढ
ढ (32) ।
ढो ढक्का निर्णयः पूर्वो यज्ञेशश्च नदेश्वरः ।अर्धनारीश्वरस्तोयमीश्वरी त्रिशिखी नवः ॥ ९७ ॥
2.31.97 · p. 15
अनुष्टुप्
दक्षपादाङ्गुलेर्मूलं सिद्धिदण्डो विनायकः ।प्रहासस्त्रिभवा ऋद्धिर्निर्गुणो निधनं ध्वनिः ॥ ९८ ॥
2.31.98 · p. 15
अनुष्टुप्
विघ्नेशः पालिनी त्वक् कधारिणी क्रोडपुच्छकः ।एलापुरं त्वगात्मा च विशाखा श्रीर्मनो रतिः ॥ ९९ ॥
2.31.99 · p. 15
अनुष्टुप्