All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
प्रकारान्तरमन्त्राभिधान · उ
उ (32) ।
उः शङ्करो वर्त्तुलाक्षी भूतः कल्याणवाचकः ।अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः ॥ १८ ॥
2.6.18 · p. 7
अनुष्टुप्
उग्रः प्रभुर्धृतिर्विष्णुर्विश्वकर्मा महेश्वरः ।शत्रुघ्नश्चेटि(न्धि)का पुष्टिः पञ्चमी वह्निवासिनी ॥ १९ ॥
2.6.19 · p. 7
अनुष्टुप्
कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही ।उटसूः कुटिला श्रोत्रं पारद्वीपो वृषो हरः ॥ २० ॥
2.6.20 · p. 7
अनुष्टुप्