कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Tantrābhidhāna

तन्त्राभिधान Tantrābhidhāna

821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)

प्रकारान्तरमन्त्राभिधान · अं

अं (39) ।

अ-ङ्कारश्चक्षुषी दन्तो घटिका समगुह्यकः ।प्रद्युम्नः श्रीमुखी प्रीतिर्बीजयोनिर्वृषध्वजः ॥ ४९ ॥
2.16.49 · p. 10
अनुष्टुप्
परं शशी प्रमाणीशः सोमो बिन्दुः कलानिधिः ।अक्रूरश्चेतना नादः पूर्णा दुःखहरः शिवः ॥ ५० ॥
2.16.50 · p. 10
अनुष्टुप्
शिरः शम्भुर्नरेशश्च सुखदुःखप्रवर्तकः ।पूर्णिमा रेवती शुद्धः कन्याचर(रो) रविर्वियत् ॥ ५१ ॥
2.16.51 · p. 10
अनुष्टुप्
अमृताकर्षिणी शून्यं विचित्रा व्योमरूपिणी ।केदारो रात्रिनाथश्च कुब्जिका चैव बुद्बुदः ॥ ५२ ॥
2.16.52 · p. 10
अनुष्टुप्