All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
वरदातन्त्रोक्तमन्त्रार्थाभिधान
[10]वरदातन्त्रोक्त-मन्त्रार्थाभिधानम् ।
शिव उवाच ।
मन्त्रार्थं कथयाम्यद्य शृणुष्व परमेश्वरि ।विना येन न सिद्ध्येत्तु साधनैः कोटिशः शिवे ॥
11.1 · p. 65
अनुष्टुप्
आदौ प्रसादबीजस्य मन्त्रार्थं शृणु पार्वति ।शिववाची हकारस्तु औकारः स्यात् सदाशिवः ॥
11.2 · p. 65
अनुष्टुप्
द दुर्गावाचकं देवि ऊकारश्चापि रक्षणे ।विश्वमाता नादरूपः कुर्वर्थो बिन्दुरूपकः ॥
11.4 · p. 65
अनुष्टुप्
तस्मात्तेनैव बीजेन दुर्गामाराधयेच्छिवे ॥दूं॥
11.5 · p. 65
क काली ब्रह्म र प्रोक्तं महामायार्थकश्च ई ।विश्वमात्रर्थको नादो बिन्दुर्दुःखहरार्थकः ॥
11.6 · p. 65
अनुष्टुप्
तेनैव कालिकादेवीं पूजयेद्दुःखशान्तये ॥क्रीं॥
11.7 · p. 65
हकारः शिववाची स्यात् रेफः प्रकृतिरुच्यते ।महामायार्थ ई-शब्दो नादो विश्वप्रसूः स्मृतः ॥
11.8 · p. 65
अनुष्टुप्
महालक्ष्म्यर्थकः शः स्याद् धनार्थो रेफ उच्यते ।ईस्तुष्ट्यर्थो परो नादो बिन्दुर्दुःखहरार्थकः ॥
11.10 · p. 65
अनुष्टुप्
-----------------------------------लक्ष्मीदेव्या बीजमेतत्तेन देवीं प्रपूजयेत् ॥श्रीं॥
11.11 · p. 65
metre not recognised
सरस्वत्यथ ऐ-शब्दो बिन्दुर्दुःखहरार्थकः ।सरस्वत्या बीजमेतत्तेन वाणीं प्रपूजयेत् ॥ऐं॥
11.12 · p. 66
अनुष्टुप्
कः कामदेव उद्विष्टोऽप्यथवा कृष्ण उच्यते ।ल इन्द्र ई तुष्टिवाची सुखदुःखप्रदञ्च अं ॥
11.13 · p. 66
अनुष्टुप्
हः शिवः कथितो देवि ऊ भैरव इहोच्यते ।परार्थो नादशब्दस्तु बिन्दुर्दुःखहरार्थकः ॥
11.15 · p. 66
अनुष्टुप्
गणेशार्थो ग उक्तस्ते बिन्दुर्दुःखहरार्थकः ।गं बीजार्थस्तु कथितं तव स्नेहान्महेश्वरि ॥गं॥
11.17 · p. 66
अनुष्टुप्
गो गणेशव्यापकार्थो लकारस्तेज और्मतः ।दुःखहरार्थको बिन्दुर्गणेशं तेन पूजयेत् ॥ग्लौं॥
11.18 · p. 66
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 ह (wrong syllable)
क्ष नृसिंहो ब्रह्म रश्च ऊर्ध्वदन्तार्थकश्च औ ।दुःखहरार्थको बिन्दुर्नृसिंहं तेन पूजयेत् ॥क्ष्रौं॥
11.19 · p. 66
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 ह (wrong syllable)
नामादिवर्णः सर्वेषां नाम उक्तं स्वयम्भुवा ।तेनैवार्थन्तु जानीयादर्थलभ्यन्तु चिन्तयेत् ॥
11.20 · p. 66
अनुष्टुप्
यथायथं विभक्त्यर्थं मन्त्रार्थे चिन्तयेच्छिवे ।तत्तद्ववर्णादियोगेन संक्षेपात् कथितं त्वयि ॥
11.21 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दुर्गोत्तारणवाच्यः स तारकार्थस्तकारकः ।भुक्त्यर्थो रेफ उक्तोऽत्र महामायार्थकश्च ई ॥
11.22 · p. 66
अनुष्टुप्
विश्वमात्रर्थको नादो बिन्दुर्दुःखहरार्थकः ।-----------------------------------वधूबीजार्थ उक्तोऽत्र तव स्नेहान्महेश्वरि ॥स्त्रीं॥
11.23 · p. 66
अनुष्टुप्
यत्र बिन्दुद्वयं मन्त्रे एकं दुःखहरार्थकम् ।अन्यत् सुखप्रदं देवि ज्ञात्वा चार्थं विचिन्तयेत् ॥
11.24 · p. 67
अनुष्टुप्
यत्र बिन्दुद्वयं मन्त्रे अन्यत् पूर्णार्थकं मतम् ।स्वाहा मात्रार्थिका देवि परार्था वा प्रकीर्त्तिता ॥
11.25 · p. 67
अनुष्टुप्
शक्रमाता वषट् प्रोक्ता हरिप्रियार्थका गिरा ।सुरार्था फट् हयग्रीवे विव्रिं बीजं विनिर्दिशेत् ॥
11.26 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्रि (wrong syllable)
यं बीजं वायुवाची स्यात् लमैन्द्रं परिकीर्त्तितम् ।अनेकाक्षरबीजे च स्वस्वबीजं स्वनामकम् ॥
11.27 · p. 67
अनुष्टुप्
एवं ज्ञात्वा महेशानि मन्त्रार्थं परिचिन्तयेत् ।एकबीजद्वयं यत्र पृथगर्थं प्रकल्पयेत् ॥
11.28 · p. 67
अनुष्टुप्
वीप्सार्थं वा महेशानि ज्ञात्वा मन्त्रं जपेद्धिया ।इति ते कथितो देवि मन्त्रार्थः परमेश्वरि ॥
11.29 · p. 67
अनुष्टुप्
॥ इति वरदातन्त्रोक्त-मन्त्रार्थाभिधानं समाप्तम् ॥
-----------------------------------
11.30 · p. 67