All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
प्रकारान्तरमन्त्राभिधान · क
क (42) ।
कः क्रोधीशो महाकाली कामदेवः प्रकाशकः ।कपाली तै(ते)जसः शान्तिर्वासुदेवो जयाऽनलः ॥ ५६ ॥
2.18.56 · p. 11
अनुष्टुप्
चक्री प्रजापतिः सृष्टिर्दक्षस्कन्धो विशाम्पतिः ।अनन्तः पार्थिवो बिन्दुस्तापिनी परमार्थकः ॥ ५७ ॥
2.18.57 · p. 11
अनुष्टुप्
वर्गाद्यश्च मु(सु)खं ब्रह्मा सखाम्भोधिः शिरो(वो) जलम् ।माहेश्वरी तुला पुष्पं(ष्पा) मङ्गलश्चरणं करः ॥ ५८ ॥
2.18.58 · p. 11
अनुष्टुप्