All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
प्रकारान्तरमन्त्राभिधान · ध
ध (35) ।
धो धनार्थो(ख्यो) रुचिः स्थाणुः शाश्वतो योगिनीप्रियः ।मीनेशः शङ्खिनी तोयं नागेशो विश्वपावनी ॥ ११३ ॥
2.36.113 · p. 16
अनुष्टुप्
धिषणा धा(ध)रणा(णी) चिन्ता(त्रा) नेत्रयुग्मं प्रियो मतिः ।पीतवासास्त्रिवर्णा च धाता धर्मप्लवङ्गमः ॥ ११४ ॥
2.36.114 · p. 16
अनुष्टुप्
सन्दर्शो मोहनो लज्जा वज्रतुण्डाधरो(रं) धरा ।वामपादाङ्गुलेर्मूलं ज्येष्ठा सुरपुरं भवः ॥ ११५ ॥
2.36.115 · p. 16
अनुष्टुप्
-----------------------------------स्पर्शात्मा दीर्घजङ्घा च धनेशो धनसञ्चयः ॥ ११६ ॥
2.36.116 · p. 16
अनुष्टुप्metre not read in every line