कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Tantrābhidhāna

तन्त्राभिधान Tantrābhidhāna

821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)

प्रकारान्तरमन्त्राभिधान · प

प (38) ।

पः पू(शू)रप्रियता तीक्ष्णा लोहितः पञ्चमो रमा ।गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुवाहिता ॥ १२१ ॥
2.38.121 · p. 17
अनुष्टुप्
तपनः पालनः पाता पद्मरेणुर्निरञ्जनः ।सावित्री पातिनी पानं वीरतत्त्वं धनुर्द्धरः ॥ १२२ ॥
2.38.122 · p. 17
अनुष्टुप्
दक्षपार्श्वश्च सेनानीर्मरीचिः पवनः शनिः ।उड्डीशं जयिनी कुम्भोऽलसो रेखाः च मोहकः ॥ १२३ ॥
2.38.123 · p. 17
अनुष्टुप्
मूला द्वितीयमिन्द्राणी लोकाक्षी मन आत्मकः ॥ १२४ ॥
2.38.124 · p. 17