कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Tantrābhidhāna

तन्त्राभिधान Tantrābhidhāna

821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)

मुद्रानिघण्टु (1/2)

[11]मुद्रानिघण्टुः । (Sloka cunt: 1+144)

अथ मुद्राः प्रवक्ष्यामि सर्वतन्त्रेषु गोपिता ।याभिर्विरचिताभिश्च मोदन्ते मन्त्रदेवताः ॥ १ ॥
12.1 · p. 68
अनुष्टुप्
अर्च्चने जपकाले च ध्याने काम्ये च कर्मणि ।स्नाने चावाहने शङ्खे प्रतिष्ठायाञ्च रक्षणे ॥ २ ॥
12.2 · p. 68
अनुष्टुप्
नैवेद्ये च तथान्ने च तत्तत्कल्पप्रकाशिते ।स्थाने मुद्राः प्रकर्तव्याः स्वस्वलक्षणसंयुताः ॥ ३ ॥
12.3 · p. 68
अनुष्टुप्
आवाहनादिका मुद्रा नव साधारणा मताः ।तथा षडङ्गमुद्राश्च सर्वमन्त्रेषु योजयेत् ॥ ४ ॥
12.4 · p. 68
अनुष्टुप्
एकोनविंशतिर्मुद्रा विष्णोरुक्ता मनीषिभिः ।शङ्खचक्रगदापद्मवेणुश्रीवत्सकौस्तुभाः ॥ ५ ॥
12.5 · p. 68
अनुष्टुप्
वनमाला तथा ज्ञानमुद्रा बिल्वाह्वया तथा ।गरुडाख्या परा मुद्रा विष्णोः सन्तोषदायकाः ॥ ६ ॥
12.6 · p. 68
अनुष्टुप्
नारसिंही च वाराही हयग्रैवी धनुस्तथा ।बाणमुद्रा ततः पर्शुर्जगन्मोहनिका परा ॥ ७ ॥
12.7 · p. 68
अनुष्टुप्
---
12.8 · p. 68
अनुष्टुप्metre not read in every line

मुद्रापदव्युत्पत्तिमाह यामले-

मोदनं तु सर्वदेवानां द्रावणात् पापसन्ततेः ।

तस्मान्मुद्रेति सा ख्याता सर्वकामार्थसाधनी ॥

-----------------------------------काममुद्रा पराख्याता शिवस्य दशमुद्रिकाः ।लिङ्गयोनित्रिशूलाक्षमालेष्टाभीमृगाह्वयः ॥ ८ ॥
12.8 · p. 68
अनुष्टुप्metre not read in every line
खट्वाङ्गा च कपालाख्या डमरुः शिवतोषदाः ।सूर्य्यस्यैकैव पद्माख्या सप्तमुद्रा गणेशितुः ॥ ९ ॥
12.9 · p. 69
अनुष्टुप्
दन्तपाशाङ्कुशाविघ्नपर्शुर्लड्डुकसंज्ञिताः ।बीजपूराह्वया मुद्रा विज्ञेया विघ्नपूजने ॥ १० ॥
12.10 · p. 69
अनुष्टुप्
पाशाङ्कुशवराभीतिखड्गचर्मधनुःशराः ।मौषली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ॥ ११ ॥
12.11 · p. 69
अनुष्टुप्
मुद्गरः पाशवज्राख्या जिह्वा ब्राह्मी तथैव च ।पञ्चमुद्राः समाख्याता ब्रह्मास्त्रजपपूजने ॥ १२ ॥
12.12 · p. 69
अनुष्टुप्
लक्ष्मीमुद्रार्च्चने लक्ष्म्या वाग्वादिन्यास्तु पूजने ।अक्षमाला तथा वीणा व्याख्यापुस्तकमुद्रिके ॥ १३ ॥
12.13 · p. 69
अनुष्टुप्
सप्तजिह्वाह्वया मुद्रा विज्ञेया वह्निपूजने ।मत्स्यमुद्रा च कूर्माख्या लेलिहा मुण्डसंज्ञिका ॥ १४ ॥
12.14 · p. 69
अनुष्टुप्
महायोनिरिति ख्याता सर्वसिद्धिसमृद्धिदा ।शक्त्यर्चने महायोनिः श्यामादौ मुण्डमुद्रिका ॥ १५ ॥
12.15 · p. 69
अनुष्टुप्
मत्स्यकूर्मलेलिहाख्या मुद्रा साधारणी मता ।तारार्चने विशेषास्तु कथ्यन्ते पञ्चमुद्रिकाः ॥ १६ ॥
12.16 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्म (wrong syllable)
योनिश्च भूतिनी चैव बीजाख्या दैत्यधूमिनी ।लेलिहानेति संप्रोक्ताः पञ्चमुद्राः विलोकिताः ॥ १७ ॥
12.17 · p. 69
अनुष्टुप्
दशमुद्राः समाख्यातास्त्रिपुरायाः प्रपूजने ।संक्षोभद्रावणाकर्षवश्योन्मादमहाऽङ्कुशाः ॥ १८ ॥
12.18 · p. 69
अनुष्टुप्
-----------------------------------खेचरी बीजयोन्याख्या त्रिखण्डा दश कीर्त्तिताः ।कुम्भमुद्राऽभिषेके स्यात् पद्ममुद्रा तथासने ॥ १९ ॥
12.19 · p. 69
अनुष्टुप्metre not read in every line
कालकर्णी प्रयोक्तव्या विघ्नप्रशमकर्मणि ।गालिनी च प्रयोक्तव्या जलशोधनकर्मणि ॥ २० ॥
12.20 · p. 70
अनुष्टुप्
श्रीगोपालार्चने वेणुर्नृहरेर्नारसिंहिका ।वराहस्य च पूजायां वाराहाख्यां प्रदर्शयेत् ॥ २१ ॥
12.21 · p. 70
अनुष्टुप्
हयग्रीवार्चने चैव हयग्रैवीं प्रदर्शयेत् ।रामार्चने धनुर्बाणमुद्रे पर्शुस्तथार्च्चने ॥ २२ ॥
12.22 · p. 70
अनुष्टुप्
पर्शुरामस्य विज्ञेया जगन्मोहनसंज्ञिका ।जगन्मोहनपूजायां काममुद्रा तदर्चने ॥ २३ ॥
12.23 · p. 70
अनुष्टुप्
वासुदेवाह्वयाह्वा(ध्या)ने कुम्भमुद्रा तु रक्षणे ।सर्वत्र प्रार्थने चैव प्रार्थनाख्यां प्रदर्शयेत् ॥ २४ ॥
12.24 · p. 70
अनुष्टुप्
उद्देशानुक्तमादायोच्यन्ते तल्लक्षणानि च ।हस्ताभ्यामञ्जलिं बद्ध्वाऽनामिकामूलपर्वणोः ॥ २५ ॥
12.25 · p. 70
अनुष्टुप्
अङ्गुष्ठौ निक्षिपेत् सेयं मुद्रा त्वावाहनी स्मृता ।अधोमुखी त्वियं चेत् स्यात् स्थापनीमुद्रिका स्मृता ॥ २६ ॥
12.26 · p. 70
अनुष्टुप्
उच्छ्रिताङ्गुष्ठमुष्ट्योश्च संयोगात् सन्निधापनी ।अन्तःप्रवेशिताङ्गुष्ठा सैव संबोधिनी मता ॥ २७ ॥
12.27 · p. 70
अनुष्टुप्
उत्तानमुष्टियुगला सम्मुखीकरणी मता ।देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ॥ २८ ॥
12.28 · p. 70
अनुष्टुप्
सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी ।अवगुण्ठनमुद्रेयमभितो भ्रामिता मता ॥ २९ ॥
12.29 · p. 70
अनुष्टुप्
-----------------------------------अन्योन्याभिमुखाश्लिष्टा कनिष्ठाऽनामिका पुनः ।तथैव तर्जनी मध्या धेनुमुद्रेयमीरिता ॥ ३० ॥
12.30 · p. 70
अनुष्टुप्metre not read in every line
अमृतीकरणं कुर्यात्तया साधकसत्तमः ।अन्योन्यग्रथिताङ्गुष्ठा प्रसारितकराङ्गुली ॥ ३१ ॥
12.31 · p. 71
अनुष्टुप्
महामुद्रेयमुदिता परमीकरणे बुधैः ।प्रयोजयेदिमा मुद्रा देवताऽऽह्वानकर्मणि ॥ ३२ ॥
12.32 · p. 71
अनुष्टुप्
अङ्गन्यासक्षमा मुद्रास्तासां लक्षणमुच्यते ॥ ३३ ॥
12.33 · p. 71
अनङ्गुष्ठा ऋजवो हस्तशाखाभवेन्मुद्रा हृदये शीर्षके च ।अधोऽङ्गुष्ठा खलु मुष्टिः शिखायांकरद्वन्द्वाङ्गुलयो वर्मणि स्युः ॥ ३४ ॥
12.34 · p. 71
metre not recognised
नाराचमुष्ट्युद्धृतबाहुयुग्म-काङ्गुष्ठतर्जन्युदितोध्वनिस्तु ।विष्वक् विषक्तः कथिताऽस्त्रमुद्रायत्राक्षिणी तर्जनिमध्यमे स्तः ॥ ३५ ॥
12.35 · p. 71
इन्द्रवज्रा
नेत्रत्रयं यत्र भवेदनामाषडङ्गमुद्रा कथिता विधिज्ञैः ॥ ३६ ॥
12.36 · p. 71
उपजातिः
अङ्गहीनस्य मन्त्रस्य स्वेनैवाङ्गानि कल्पयेत् ।वैष्णवानान्तु मुद्राणां कथ्यन्ते लक्षणान्यथ ॥ ३७ ॥
12.37 · p. 71
अनुष्टुप्
वामाङ्गुष्ठं तु संगृह्य दक्षिणेन तु मुष्टिना ।कृत्वोत्तानां ततो मुष्टिमङ्गुष्ठन्तु प्रसारयेत् ॥ ३८ ॥
12.38 · p. 71
अनुष्टुप्
वामाङ्गुल्यस्तयाश्लिष्टाः संयुक्ताः सुप्रसारिताः ।-----------------------------------दक्षिणाङ्गुष्ठसंस्पृष्टाः शङ्खमुद्रेयमीरिता ॥ ३९ ॥
12.39 · p. 71
अनुष्टुप्
हस्तौ तु सम्मुखौ कृत्वा सन्नतप्रोथिताङ्गुली ।तलान्तर्मिलिताङ्गुष्ठौ सुभुग्नौ सुप्रसारितौ ॥ ४० ॥
12.40 · p. 72
अनुष्टुप्
कनिष्ठाङ्गुष्ठकौ लग्नौ मुद्रैषा चक्रसंज्ञिका ।अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिताङ्गुली ॥ ४१ ॥
12.41 · p. 72
अनुष्टुप्
अङ्गुल्यौ मध्यमे भूयः सुलग्ने सुप्रसारिते ।गदामुद्रेयमाख्याता विष्णोः सन्तोषवर्धिनी ॥ ४२ ॥
12.42 · p. 72
अनुष्टुप्
हस्तौ तु सम्मुखौ कृत्वा सन्नतावुन्नताङ्गुली ।तलान्तर्मिलिताङ्गुष्ठौ मुद्रैषा पद्मसंज्ञिका ॥ ४३ ॥
12.43 · p. 72
अनुष्टुप्
ओष्ठे वामकराङ्गुष्ठो लग्नस्तत्र कनिष्ठिका ।दक्षिणाङ्गुष्ठसंलग्ना तत्कनिष्ठा प्रसारिता ॥ ४४ ॥
12.44 · p. 72
अनुष्टुप्
तर्जनीमध्यमानामाः किञ्चित् सङ्कोच्य चालिताः ।वेणुमुद्रा भवेदेषा सुगुप्ता प्रेयसी हरेः ॥ ४५ ॥
12.45 · p. 72
अनुष्टुप्
अन्योन्यस्पृष्टकरयोर्मध्यमानामिकाङ्गुली ।अङ्गुष्ठेन तु बध्नीयात् कनिष्ठामूलसंश्रि(स्थि)ते ॥ ४६ ॥
12.46 · p. 72
अनुष्टुप्
तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्ससंज्ञिका ।अनामिकापृष्ठलग्नां दक्षिणस्य कनिष्ठिकाम् ॥ ४७ ॥
12.47 · p. 72
अनुष्टुप्
कनिष्ठयाऽन्यया बद्ध्वा तर्जन्या दक्षया तथा ।वामामनामां बध्नीयाद्दक्षिणाङ्गुष्ठमूलके ॥ ४८ ॥
12.48 · p. 72
अनुष्टुप्
अङ्गुष्ठमध्यमे वामे संयोज्य सरलाः पराः ।चतस्रोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसंज्ञिका ॥ ४९ ॥
12.49 · p. 72
अनुष्टुप्
स्पृशेत् कण्ठादिपादान्तं तर्जन्याङ्गुष्ठनिष्ठया ।-----------------------------------करद्वयेन मालावन्मुद्रेयं वनमालिका ॥ ५० ॥
12.50 · p. 72
अनुष्टुप्
तर्जन्यङ्गुष्ठकौ सक्तौ वक्रतो हृदि विन्यसेत् ।वामहस्तानु(म्बु)जं वामजानुमूर्धनि विन्यसेत् ॥ ५१ ॥
12.51 · p. 73
अनुष्टुप्
ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी ॥ ५२ ॥
12.52 · p. 73
अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठकेनापि बद्ध्वातस्याग्रं पीडयित्वाङ्गुलिभिरपि च ता वामहस्ताङ्गुलीभिः ।बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्मारबीजंबिल्वाख्या मुद्रिकैषा स्फुटमिह कथिता गोपनीया विधिज्ञैः ॥ ५३ ॥
12.53 · p. 73
स्रग्धरा
हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा कनिष्ठिके ।मिथस्तर्जनिके श्लिष्टे श्लिष्टावङ्गुष्ठकौ तथा ॥ ५४ ॥
12.54 · p. 73
अनुष्टुप्
मध्यमानामिके द्वे तु द्वौ पक्षाविव चालयेत् ।एषा गरुडमुद्रा स्याद्विष्णोः सन्तोषवर्धिनी ॥ ५५ ॥
12.55 · p. 73
अनुष्टुप्
जानुमध्ये करौ कृत्वा चिबुकौष्ठौ समाकृतौ ।हस्तौ तु भूमिसंलग्नौ कम्पमानौ पुनः पुनः ॥ ५६ ॥
12.56 · p. 73
अनुष्टुप्
मुखं निवृत्तकं कृत्वा लेलिहानां च जिह्विकाम् ।नारसिंही भवेदेषा मुद्रा तत्प्रीतिवर्धिनी ॥ ५७ ॥
12.57 · p. 73
अनुष्टुप्
अङ्गुष्ठाभ्याञ्च करयोरथाक्रम्य कनिष्ठिके ।अधोमुखीभिः सर्वाभिर्मुद्रेयं नृहरेः स्मृता ॥ ५८ ॥
12.58 · p. 73
अनुष्टुप्
दक्षोपरि करं वामं कृत्वोत्तानमधः सुधीः ।भ्रा(न)मयेदिति संप्रोक्ता मुद्रा वाराहसंज्ञिका ॥ ५९ ॥
12.59 · p. 73
अनुष्टुप्
दक्षहस्तञ्चोर्ध्वमुखं वामहस्तमधोमुखम् ।अङ्गुल्यग्रन्तु संयुक्तं मुद्रा वाराहसंज्ञिका ॥ ६० ॥
12.60 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ञ्चो (wrong syllable)
-----------------------------------वामहस्ततले कृत्वा दक्षाङ्गुलिमधोमुखीम् ।संरोप्य मध्यमानामे मुखस्याधो विकुञ्चयेत् ॥ ६१ ॥
12.61 · p. 73
अनुष्टुप्metre not read in every line
हयग्रीवप्रिया मुद्रा तन्मूर्तैरनुकारिणी ।वामस्य मध्यमाग्रन्तु तर्जन्यग्रे तु योजयेत् ॥ ६२ ॥
12.62 · p. 74
अनुष्टुप्
अनामिकां कनिष्ठाञ्च तस्याङ्गुष्ठेन पीडयेत् ।स्पर्शयेद्वामके स्कन्धे धनुर्मुद्रेयमीरिता ॥ ६३ ॥
12.63 · p. 74
अनुष्टुप्
दक्षमुष्टेस्तु तर्जन्या दीर्घया बाणमुद्रिका ।तले तलन्तु करयोस्तिर्यक् संयोज्य चाङ्गुलीः ॥ ६४ ॥
12.64 · p. 74
अनुष्टुप्
संहताः प्रसृताः कुर्यान्मुद्रेयं पर्शुसंज्ञिका ।ऊर्ध्वस्थाङ्गुष्ठमुष्टी द्वे मुद्रा त्रैलोक्यमोहिनी ॥ ६५ ॥
12.65 · p. 74
अनुष्टुप्
हस्तौ तु सम्पुटौ कृत्वा प्रसृताङ्गुलिकौ तथा ।तर्जन्यौ मध्यमापृष्ठे अङ्गुष्टौ मध्यमाश्रितौ ॥ ६६ ॥
12.66 · p. 74
अनुष्टुप्
काममुद्रेयमुदिता सर्वदेवप्रियङ्करी ।सदाशिवप्रियाणाञ्च कथ्यन्ते लक्षणानि च ॥ ६७ ॥
12.67 · p. 74
अनुष्टुप्
उच्छ्रितं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन बन्धयेत् ।वामाङ्गुलीर्दक्षिणाभिरङ्गुलीभिश्च बन्धयेत् ॥ ६८ ॥
12.68 · p. 74
अनुष्टुप्
लिङ्गमुद्रेयमाख्याता शिवसान्निध्यकारिणी ।मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके ॥ ६९ ॥
12.69 · p. 74
अनुष्टुप्

@मध्यमा तासामुन्नम्याऽध इति क्वचित् क्वचित् प्रकारान्तर बाणमुद्रालक्षणं ज्ञानार्णवे-

यथा हस्तगतं चापं तथा हस्तं कुरु प्रिये ।

चापमुद्रेयमाख्याता वामहस्ते व्यवस्थिता ॥

यथा हस्तगता बाणास्तथा हस्तं कुरु प्रिये ।

बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तनी ॥

-----------------------------------अनामिकोर्ध्वसंश्लिष्टदीर्घमध्यमयोरधः ।अङ्गुष्ठाग्रद्वयं न्यस्येद्योनिमुद्रेयमीरिता ॥ ७० ॥
12.70 · p. 74
अनुष्टुप्metre not read in every line
अङ्गुष्ठेन कनिष्ठान्तु बद्ध्वा दक्षाङ्गुलीत्रयम् ।प्रसारयेत् त्रिशूलाख्या मुद्रैषा परिकीर्त्तिता ॥ ७१ ॥
12.71 · p. 75
अनुष्टुप्
अङ्गुष्ठतर्जन्यग्रे तु ग्रन्थयित्वाऽङ्गुलित्रयम् ।प्रसारयेदक्षमाला-मुद्रेयं परिकीर्त्तिता ॥ ७२ ॥
12.72 · p. 75
अनुष्टुप्
अधःकृतो दक्षहस्तः प्रसृतो वरमुद्रिका ।ऊर्ध्वीकृतो वामहस्तः प्रसृतोऽभयमुद्रिका ॥ ७३ ॥
12.73 · p. 75
अनुष्टुप्
मिलिताऽनामिकाङ्गुष्ठे मध्यमाग्रन्तु योजयेत् ।शिष्टाङ्गुल्युच्छ्रिते कुर्यान्मृगमुद्रेयमीरिता ॥ ७४ ॥
12.74 · p. 75
अनुष्टुप्
पञ्चाङ्गुल्यो दक्षिणास्तु मिलिता ऊर्ध्वमुन्नताः ।खट्वाङ्गमुद्रा विख्याता शिवस्यातिप्रिया मता ॥ ७५ ॥
12.75 · p. 75
अनुष्टुप्
पात्रवद्वामहस्तञ्च कृत्वा वामांसके तथा ।निधायोच्छ्रितवत् कुर्यान्मुद्रा कापालकी मता ॥ ७६ ॥
12.76 · p. 75
अनुष्टुप्
मुष्टिञ्च शिथिलां बद्ध्वा ईषदुच्छितमध्यमाम् ।दक्षिणामूर्ध्वमुत्तोल्य कर्णदेशे प्रचालयेत् ॥ ७७ ॥
12.77 · p. 75
अनुष्टुप्
एषा मुद्रा डमरुका सर्वविघ्नविनाशिनी ।ततो गणेशमुद्राणामुच्यन्ते लक्षणानि च ॥ ७८ ॥
12.78 · p. 75
अनुष्टुप्
उत्तानोर्ध्वमुखी मध्या सरला बद्धमुष्टिका ।दन्तमुद्रा समाख्याता सर्वागमविशारदैः ॥ ७९ ॥
12.79 · p. 75
अनुष्टुप्
वाममुष्टेस्तु तर्जन्या दक्षमुष्टिस्थतर्जनीम् ।संयोज्याऽङ्गुष्ठकाग्राभ्यां तर्जन्यग्रे स्वके क्षिपेत् ॥ ८० ॥
12.80 · p. 75
अनुष्टुप्
-----------------------------------एषा पाशाह्वया मुद्रा विद्वद्भिः परिकीर्त्तिता ।ऋज्वीञ्च मध्यमां कृत्वा तर्जनीं मध्यपर्वणि ॥ ८१ ॥
12.81 · p. 75
अनुष्टुप्metre not read in every line
संयोज्याकुञ्चयेत् किञ्चिन्मुद्रैषाऽङ्कुशसंज्ञिका ।तर्जनीमध्यमासन्धिनिःसृताङ्गुष्ठमुष्टिका ॥ ८२ ॥
12.82 · p. 76
अनुष्टुप्
अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका ।पर्शुमुद्रा निगदिता प्रसिद्धा लड्डुमुद्रिका ॥ ८३ ॥
12.83 · p. 76
अनुष्टुप्
बीजपूराह्वया मुद्राऽप्रसिद्धत्वादुपेक्षिता ।शाक्तेयानाञ्च मुद्राणां कथ्यन्ते लक्षणानि च ॥ ८४ ॥
12.84 · p. 76
अनुष्टुप्
पाशाङ्कुशवराभीतिधनुर्बाणाः समीरिताः ।कनिष्ठाऽनामिके बद्ध्वा स्वाङ्गुष्ठेनैव दक्षतः ॥ ८५ ॥
12.85 · p. 76
अनुष्टुप्
श्लिष्टाङ्गुली च प्रसृते संसृष्टे खड्गमुद्रिका ।वामहस्तं तथा तिर्यक् कृत्वा चैव प्रसारयेत् ॥ ८६ ॥
12.86 · p. 76
अनुष्टुप्
आकुञ्चिताङ्गुलीः कुर्याच्चर्ममुद्रेयमीरिता ।मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणाम् ॥ ८७ ॥
12.87 · p. 76
अनुष्टुप्
कुर्यान्मूषलमुद्रेयं सर्वविघ्नविनाशिनी ।मुष्टिं कृत्वा कराभ्याञ्च वामस्योपरि दक्षिणाम् ॥ ८८ ॥
12.88 · p. 76
अनुष्टुप्
कृत्वा शिरसि संयोज्य दुर्गामुद्रेयमीरिता ।चक्रमुद्रां तथा बद्ध्वा मध्यमे द्वे प्रसार्य च ॥ ८९ ॥
12.89 · p. 76
अनुष्टुप्
कनिष्ठिके तथानीय तदग्रेऽङ्गुष्ठकौ क्षिपेत् ।लक्ष्मीमुद्रा तथाह्येषा सर्वसम्पत्प्रदायिनी ॥ ९० ॥
12.90 · p. 76
अनुष्टुप्
-----------------------------------मुद्गरं पाशजिह्वे चाऽप्रसिद्धत्वादुपेक्षिते ॥ ९१ ॥
12.91 · p. 76
अनुष्टुप्metre not read in every line
वामाङ्गुष्ठमधः कृत्वा अङ्गुलीभिर्निरुध्य च ।ब्राह्मीमुद्रेति विख्याता ब्रह्मास्त्रजपकर्मणि ॥ ९२ ॥
12.92 · p. 77
अनुष्टुप्
वीणावादनबद्धस्तौ कृत्वा सञ्चालयेच्छिरः ।वीणामुद्रा समाख्याता सरस्वत्याः प्रियङ्करी ॥ ९३ ॥
12.93 · p. 77
अनुष्टुप्
वाममुष्टिः स्वाभिमुखी बद्धा पुस्तकमुद्रिका ॥ ९४ ॥
12.94 · p. 77
दक्षिणाङ्गुष्ठतर्जन्यावग्रलग्ने पराङ्गुलीः ।प्रसार्य संहतोत्ताना एषा व्याख्यानमुद्रिका ।रामस्य च सरस्वत्या अत्यन्तप्रेयसी मता ॥ ९५ ॥
12.95 · p. 77
अनुष्टुप्
मणिबन्धस्थितौ कृत्वा प्रसृताङ्गुलिकौ करौ ।कनिष्ठाङ्गुष्टयुगले मिलित्वान्तः प्रसारयेत् ।सप्तजिह्वाख्यमुद्रेयं वैश्वानरप्रियङ्करी ॥ ९६ ॥
12.96 · p. 77
अनुष्टुप्metre not read in every line
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ।तर्जनीमध्यमानामाः संहता भुग्नवर्जिताः ।मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ ९७ ॥
12.97 · p. 77
अनुष्टुप्
दक्षाङ्गुष्ठं पराङ्गुष्ठे क्षिप्त्वा हस्तद्वयेन तु ।सावकाशामेकमुष्टिं कुर्यात् सा कुम्भमुद्रिका ॥ ९८ ॥
12.98 · p. 77
अनुष्टुप्
मुष्ट्योरूर्ध्वीकृताङ्गुष्ठौ तर्जन्यग्रे तु विन्यसेत् ।सर्वरक्षाकरी ह्येषा कुम्भमुद्रा समीरिता ॥ ९९ ॥
12.99 · p. 77
अनुष्टुप्
प्रसताङ्गुलिकौ हस्तौ मिथः श्लिष्टौ च सम्मुखौ ।कुर्यात् स्वहृदये चेयं मुद्रा प्रार्थनसंज्ञिका ॥ १०० ॥
12.100 · p. 77
अनुष्टुप्
-----------------------------------अञ्जल्याऽञ्जलिमुद्रा स्याद् वासुदेवप्रियैव सा ॥ १०१ ॥
12.101 · p. 77
अनुष्टुप्metre not read in every line
अङ्गुष्ठावुन्नतौ कृत्वा मुष्ट्योः संलग्नयोर्द्वयोः ।तावेवाभिमुखौ कुर्यात् मुद्रैषा कालकर्णिका ॥ १०२ ॥
12.102 · p. 78
अनुष्टुप्
दक्षिणमुष्टिनिबिडा नासिकार्पिततर्जनी ।मुद्रा विस्मयसंज्ञा स्यात् विस्मयावेशकारिणी ॥ १०३ ॥
12.103 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
मुष्टिरूर्ध्वीकृताऽङ्गुष्ठा दक्षिणा नादमुद्रिका ।तर्जन्यङ्गुष्ठसंयोगादग्रतो बिन्दुमुद्रिका ॥ १०४ ॥
12.104 · p. 78
अनुष्टुप्
अधोमुखे वामहस्ते ऊर्ध्वास्यं दक्षहस्तकम् ।क्षिप्त्वाऽङ्गुलीभिः संयोज्य हस्तौ तु परिवर्तयेत् ।एषा संहारमुद्रा स्याद्विसर्जनविधौ मता ॥ १०५ ॥
12.105 · p. 78
अनुष्टुप्metre not read in every line
दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत् ।अङ्गुष्ठौ चालयेत् सम्यक् मुद्रेयं मत्स्यरूपिणी ॥ १०६ ॥
12.106 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 णि (wrong syllable)
वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठिकाम् ।तथा दक्षिणतर्जन्यां वामाङ्गुष्ठं नियोजयेत् ॥ १०७ ॥
12.107 · p. 78
अनुष्टुप्
उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः ।अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ॥ १०८ ॥
12.108 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
कूर्मपृष्ठसमं कुर्यात् दक्षपाणिञ्च सर्वतः ।कूर्ममुद्रेयमाख्याता देवताध्यानकर्मणि ॥ १०९ ॥
12.109 · p. 78
अनुष्टुप्
अन्तराङ्गुष्ठमुष्टिं तु कृत्वा वामकरस्य च ।मध्यमाद्या दक्षिणस्य तथानम्य प्रयत्नतः ॥ ११० ॥
12.110 · p. 78
अनुष्टुप्
मध्याङ्केनाऽथ तर्जन्या अङ्गुष्ठाग्रं तु योजयेत् ।दक्षिणं योजयेत् पाणिं वाममुष्टौ तु साधकः ।-----------------------------------दर्शयेद्दक्षिणे भागे मुण्डमुद्रेयमुच्यते ॥ १११ ॥
12.111 · p. 78
अनुष्टुप्
योनिमुद्रा च वक्तव्या बीजाख्यापि च भूतिनी ॥ ११२ ॥
12.112 · p. 79
परिवर्त्य करौ स्पृष्टौ कनिष्ठाकृष्टमध्यमे ।अनामायुगलं चाधस्तर्जनीयुगलं पृथक् ॥ ११३ ॥
12.113 · p. 79
अनुष्टुप्
अन्योन्यं निबिडं बद्ध्वाऽङ्गुष्ठाग्रेऽनामिके ततः ।दानवधूमकेत्वाख्या मुद्रैषा कथिता प्रिये ॥ ११४ ॥
12.114 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
वक्त्रं विस्तारितं कृत्वाऽप्यधो जिह्वां च चालयेत् ।पार्श्वस्थं मुष्टियुगलं लेलिहानेति कीर्त्तिताः ॥ ११५ ॥
12.115 · p. 79
अनुष्टुप्
योनिर्मायाऽधरः सेन्दुर्वधूः कूर्चं क्रमाद्विदुः ।बीजानि चोच्चरन् मन्त्री मुद्राबन्धनमाचरेत् ॥ ११६ ॥
12.116 · p. 79
अनुष्टुप्
तर्जनीमध्यमानामाः समं कुर्यादधोमुखीः ।अनामायां क्षिपेद्वृद्धामृज्वीं कृत्वा कनिष्ठिकाम् ।लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्त्तिता ॥ ११७ ॥
12.117 · p. 79
अनुष्टुप्
तर्जन्यनामिकामध्याकनिष्ठाक्रमयोगतः ।करयोर्योजयत्येव कनिष्ठामूलयोगतः ।अङ्गुष्ठाग्रे तु निःक्षिप्य महायोनिः प्रकीर्त्तिता ॥ ११८ ॥
12.118 · p. 79
अनुष्टुप्
वामकेश्वरतन्त्रोक्ताः प्रकाश्यन्तेऽत्र मुद्रिकाः ॥ ११९ ॥
12.119 · p. 79