All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
प्रकारान्तरमन्त्राभिधान · आ
आ (36) ।
आ-कारो विजयाऽनन्तौ दीर्घच्छायो विनायकः ।क्षीरोदधिः पयोदश्च पाशो दीर्घास्यवृत्तकौ ॥ ९ ॥
2.3.9 · p. 6
अनुष्टुप्
प्रचण्ड एकजो रुद्रो नारायण इभेश्वरः ।प्रतिष्ठा मानदाकान्तो विश्वान्तक-गजान्तकौ ॥ १० ॥
2.3.10 · p. 6
अनुष्टुप्
पितामहो द्विठान्तो भूः क्रिया कान्तिश्च सम्भवः ।द्वितीया मानदा काशी विघ्नराजः कुजो वियत् ।स्वरान्तकश्च हृदयमङ्गुष्ठो भगमालिनी ॥ ११ ॥
2.3.11 · p. 6
अनुष्टुप्