All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
प्रकारान्तरमन्त्राभिधान · ए
ए (33) ।
ए-कारो वाग्भ(स्त)वः शक्तिर्झिण्टीशोष्ठौ भगो मरुत् ।सूक्ष्मभूतोर्ध्वकेश्यौ च ज्योत्स्ना श्रद्धा प्रमर्दनः ॥ ३५ ॥
2.12.35 · p. 9
अनुष्टुप्
भयं ज्ञानं कृषा(शा) धीरा जङ्घा सर्वसमुद्भवः ।वह्निर्विष्णुर्भगवती कुण्डली मोहिनी रसः ॥ ३६ ॥
2.12.36 · p. 9
अनुष्टुप्