All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
प्रकारान्तरमातृकानिघण्टु
[7]प्रकारान्तर-मातृकानिघण्टुः । (Sloka count: 8+51)
श्रीभैरव उवाच-
निघण्टमातृकां देवि कथयस्व प्रसादतः ।यया विज्ञातया देवि सर्वज्ञत्वं प्रजायते ।यथा जानासि देवेशि निर्घण्टं कथयस्व मे ॥ १ ॥
7.1 · p. 46
अनुष्टुप्
श्रीभैरव्युवाच-
साधु साधु महाबाहो लोकानां हितकारक ।परं गूढं निगूढञ्च निर्घण्टमातृकाक्षरम् ॥ २ ॥
7.2 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्ट (wrong syllable)
गुरोः परम्पराज्ञातं सबाह्याभ्यन्तरस्थितम् ।नहि जानन्ति ये मूढाः फलं न स्यात् महेश्वर ॥ ३ ॥
7.3 · p. 46
अनुष्टुप्
मन्त्रोद्धारप्रसङ्गञ्च पूजाखण्डं गुरुक्रमम् ।मालिनीशक्तिसङ्केतं सिद्धान्तं वामदक्षिणम् ॥ ४ ॥
7.4 · p. 46
अनुष्टुप्
गारुडं भूततन्त्रञ्च भैरवं सारसंग्रहम् ।निर्घण्टकं मया प्रोक्तं शतकोटिप्रविस्तरम् ॥ ५ ॥
7.5 · p. 46
अनुष्टुप्
श्रीभैरव उवाच-
स्वच्छन्दगतिसद्भावं भेदनिन्दाविसर्पिणम् ।किञ्चित् किञ्चिच्च जानामि न जानामि च मातृकाम् ॥ ६ ॥
7.6 · p. 46
अनुष्टुप्
अहीनमन्त्रं जानीयात् हीनमन्त्रञ्च मातृकाम् ।गोत्रहीनञ्च संस्थानं गुरुहीनं पदे पदे ॥ ७ ॥
7.7 · p. 46
अनुष्टुप्
-------------------------------------
7.8 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्ट (wrong syllable)
श्रीभैरव्युवाच-
तव स्नेहात् प्रवक्ष्यामि निर्घण्टमातृकां शृणु ।सर्वादौ प्रणवो मन्त्रस्तदुद्धारं शृणु प्रिय ॥ ८ ॥
7.8 · p. 47
अनुष्टुप्metre not read in every line