कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अवभृथ

avabhṛthaपुं · masc.

In 9 kośas: 8 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.834 · p. 34
यज्ञान्तोऽवभृथः पूर्तं वाप्यादीष्टं मखक्रिया ॥ ८३४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.27
दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.417 · p. 48
उपाकृतस्तु विज्ञेयो मन्त्रेण प्रोक्षितः पशुः ।हुतं वषट्कृतं ज्ञेयं यज्ञान्तोऽवभृथः स्मृतः ॥ ४१७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.65 · p. 75
स्त्री सुत्या सवनं क्लीबे स्यात्पुंस्यभिषवः पुनः ।आतिथ्याद्या इष्टयः स्युर्यज्ञान्तोऽवभृथः पुमान् ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.44 · p. 235
दीक्षान्तोऽवभृथो यज्ञे सुत्वा त्वभिषुतस्त्रिषु ।स्वाध्यायः स्या[99b]ज्जपः सुत्याभिषवः सवनं च तत् ।समाजस्तु सभा-संसद्धटा-समिति-पर्षदः ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1391 · p. 220
यज्ञान्ते क्रियते स्नानं यज्ञान्तोऽवभृथो हि सः ।प्रोक्तं पूर्तं पुनर्वाप्यादीष्टं तथा मखक्रिया ॥ १३९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.54 · p. 114
.....................स स्यादवभृथो यज्ञकर्मार्हं त्रिषु यज्ञियम् ।अथेष्टं क्रतुकर्म स्यात् क्रतौ दानादिकर्म च ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1187 · p. 146
दीक्षान्तोऽवभृथो यज्ञकर्मार्हं यज्ञियं त्रिषु ।भूमिः परिष्कृता वेदिः प्राग्वंशः प्राग्घविर्गृहात् ॥ ११८७ ॥
अनुष्टुप्
genderपुंmasc.

अवभृथ as a meaning in nānārtha verses