कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्राग्वंश

prāgvaṃśaपुं · masc.

In 9 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.996 · p. 39
होत्रीयं तु हविर्गेहं प्राग्वंशः प्राग्घविर्गृहात् ॥ ९९६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.28
प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.74 · p. 76
प्राग्वंशः स्याद्यत्र तत्र सम्यग्यात्रा दिवौकसाम् ।देवद्रोणी च सैवोक्ता कुंवासुगहना वृतिः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.30 · p. 123
होत्रीयं स्याद्धविर्धानी प्राग्वंशः प्राकृतो गृहम् ।आथर्वणं शान्तिगृहं कोशोऽस्त्री भाण्डमन्दिरम् ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
एते स्त्रियां भवन्ति । हानिरपचयः । ग्लानिरशक्तिः । वापी पुष्करिणी । विपणी पण्यवी[वि]थिका । सारी पटोलिका । स्वाहा मन्त्रावसानम् । लक्ष्म्यादयः स्त्रियां भवन्ति । इयं लक्ष्मीः श्रीः । मनःशिला धातुद्रव्यम् । इयमुपानत् पन्नध्री । स्थाण्वादयः पुंसि भवन्ति । अयं स्थाणुः शिवः कीलश्च । अणुः सूक्ष्मः । ज्वरो रोगः ।पुंसि स्यात्प्राग्वंशस्त्रिषु लिङ्गेषु शृङ्खलं विद्धि ।चमसस्तम्भनिदाघ[घः]पशुशूकविटकाश्च पुंस्युक्ताः ॥ ७६ ॥
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1709 · p. 275
होमादिकार्य्यहेत्वर्थं होत्रीयञ्च हविर्गृहम् ।होत्रीयस्याग्रभागे तु प्राग्वंशः क्रियते गृहम् ॥ १७०९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.31 · p. 112
गोष्ठी परिषदास्थानमास्थानी संसदित्यपि ।हविर्गेहात्तु यः पूर्वः प्राग्वंशः सोऽभिधीयते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.403 · p. 54
जङ्घापादश्चतुष्पादस्त्रिपादस्तु गृहान्तरम् ।प्रतिमार्गो बद्धपथः प्राग्वंशः पदिकोऽपि च ॥ ४०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1187 · p. 146
दीक्षान्तोऽवभृथो यज्ञकर्मार्हं यज्ञियं त्रिषु ।भूमिः परिष्कृता वेदिः प्राग्वंशः प्राग्घविर्गृहात् ॥ ११८७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.51 · p. 39
वृतिमार्गस्त्वर्धपदः प्राग्वंशः पदिकोऽपि च ।संक्रमस्तित्तिरिस्तुल्यौ शृंगाटं तु चतुष्पथः ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्व (wrong syllable)
genderपुंmasc.