कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

घटा

ghaṭāस्त्री · fem.

In 13 kośas: 19 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.481 · p. 22
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ ४८० ॥सामाजिकाः सभा संसत्समाजः परिषत्सदः ।पर्षत्समज्यागोष्ठ्यास्था आस्थानं समितिर्घटा ॥ ४८१ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1223 · p. 47
उदग्रदन्नीषादन्तो बहूनां घटना घटा ।मदो दानं प्रवृत्तिश्च वमथुः करशीकरः ॥ १२२३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.177
क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.221 · p. 27
सज्जितः कल्पितो ज्ञेयो बहूनां घटना घटा ।चूषा कक्ष्या वरत्रा स्यादालानं स्तम्भ उच्यते ॥ २२१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.162 · p. 107
ईषार्थदन्तपर्याय उग्रपर्यायदन्तके ।स्त्रियां समूहे घटना घटा यूथं नपुंसकम् ॥ १६२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.19 · p. 463
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.44 · p. 235
दीक्षान्तोऽवभृथो यज्ञे सुत्वा त्वभिषुतस्त्रिषु ।स्वाध्यायः स्या[99b]ज्जपः सुत्याभिषवः सवनं च तत् ।समाजस्तु सभा-संसद्धटा-समिति-पर्षदः ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.93 · p. 252
द्वयोस्तु हस्तिनोऽपत्यं हास्तिनायनमीरितम् ।हास्तिकं गजता वृन्दे करिणां घटना घटा ।मदो दानं प्रवृत्तिः स्त्री वमथुः करसीकरः ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.46 · p. 100
जटा कुरण्टी च सटा वधूटीस्याद्ग्रामटी खट्यपटी वटी च ।नटिश्छटा स्याच्छकटिर्घटा चमाटिर्भुषण्ठिश्च मतात्र शुण्ठी ॥ ४६ ॥
उपजातिः
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.20 · p. 109
रज्जुः समासेऽथ खनौ च गञ्जालाजा बहुत्वे च भुजो वराटः ।रज्जौ च शस्त्रे च गृहे कुटः स्या-त्कुटिस्तुटिः स्याच्च सटा घटा च ॥ २० ॥
उपजातिः
genderपुंस्त्रीm. f.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.139 · p. 69
घटा स्याद्धस्तिनां श्रेणी मदो दानं निगद्यते ।प्रवृत्तिरथ शुण्डायाः शीकरो वमथुर्मतः ॥ १३९ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.387 · p. 74
बाहुयुद्धे नियुद्धं स्यात्तुमुले संकुलं मतम् ।अश्ववृन्दे हलाहाली गजौघे घटना घटा ॥ ३८७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.743 · p. 104
सभा संसत् समाजश्च समज्या समितिः सदः ।आस्थाऽऽस्थानं तथाऽऽस्थानी पर्षत् च परिषद्घटा ॥ ७४३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2213 · p. 362
गजानां समुदाये तु हास्तिकं गजता घटा ।मदो दानं प्रवृत्तिस्तु उन्मत्तगजगण्डनम् ॥ २२१३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.107 · p. 89
वर्गः समानार्थगणैर्घटासार्थो तु जन्तुभिः ।कुलं सजातीयगणैः यूथं तिर्यग्गणैरपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1389 · p. 168
अपमर्दः पीडनं स्यात् करिणां घटना घटा ॥ १३८९ ॥
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.70 · p. 109
करेणुः करिणी धेनुः कल्पना सज्जना घटा ।गण्डूषको बहिष्कर्षः संभोगश्चातिहस्तकः ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.14 · p. 124
समज्या तारणी संसद्घटा स्थानं सदोऽप्यना ।द्रष्टरि व्यवहाराणां प्राड्विवाकोऽक्षदर्शकः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.34 · p. 194
उद्यमो गुरणं श्च्योतिः प्रघारः प्रथनं प्रथा ।भंगिस्तु व्याकृतिः खेदो निर्वेदो घटना घटा ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.798 · p. 92
तेजस्यपि धाम स्यादाधारेऽप्याशयो घटा गोष्ठ्याम् ।कुल्या कुलस्त्रियामपि तारो मुक्तागुणेऽप्युक्तः ॥ ७९८ ॥
metre not recognised
धरणिकोश Dharaṇikośa · धरणिदास टश्लोकः Dharaṇikośa 10.3.5 · p. 39
घटो गजशिरः कूटे समाध्यन्तरकुम्भयोः ।घटा स्याद्घटने हस्तिश्रेण्यां च परिकीर्तिता ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ टान्ताः Koṣakalpataru 6.10.3 · p. 178
घटः समाधौ कुटमौलिकूटयो-र्घटा[तु] गोष्ठ्यां गजसज्जनायाम् ।कुटस्तु कूटे च घटे च तद्व-द्वलाङ्गके प्रस्तरकुट्टके स्त्री ॥ ३ ॥
upajati mixed
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.384 · p. 75
वाद्यवृत्तिप्रभेदे च लोहे तमरकाह्वये ।घटा स्त्री घटने गोष्ठ्यां हस्तिसङ्घटनेऽपि च ॥ ३८४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.385 · p. 75
वृन्दमात्रे परे दोहपात्रभेदे तु सा घटी ।तैलादिभाजने स्वल्पकाले नाडिद्वयात्मके ॥ ३८५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास घकारादयः Paramānandīyanāmamālā 5.10.173 · p. 184
घृतं दीप्तौ जलेऽथाज्ये घृणा निन्दा दया स्मृता ।घटा गोष्ठ्यां गजश्रेणौ घृणिर्ज्वालांशुवीचिषु ॥ १७३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश टान्ताः Śabdaratnāvalī 7.11.12 · p. 200
घटः कुम्भशिरः कूटे समाधिभिदि पुंस्ययम् ।घटागोष्ठीभघटनाघटनेष्वपि च स्त्रियाम् ॥
अनुष्टुप्