समाज
samājaपुं · masc.In 15 kośas: 20 synonym verses.
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ ४८० ॥सामाजिकाः सभा संसत्समाजः परिषत्सदः ।पर्षत्समज्यागोष्ठ्यास्था आस्थानं समितिर्घटा ॥ ४८१ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् ।स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।चयसमवायवृन्दसन्दोहसमाजवितानसंहति-प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
metre not recognised
genderपुंmasc.
समाजः संसदास्थानी सभा स्यात्परिषत्सदः ।चित्रमद्भुतमाश्चर्यं विस्मयश्चोद्यमुच्यते ॥ ७४५ ॥
अनुष्टुप्
genderपुंmasc.
पशूनां समजोन्येषां समाजः स्यात्सधर्मिणाम् ।ये विश्वस्ताः पक्षिमृगास्ते छेका गृह्यकास्त्रिषु ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
कुलं सजातिभिर्यूथं तिरश्चां पुंनपुंसकम् ।समजस्तु पशूनां स्यात्समाजस्त्वन्यदेहिनाम् ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
दीक्षान्तोऽवभृथो यज्ञे सुत्वा त्वभिषुतस्त्रिषु ।स्वाध्यायः स्या[99b]ज्जपः सुत्याभिषवः सवनं च तत् ।समाजस्तु सभा-संसद्धटा-समिति-पर्षदः ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
व्रातः पूगः समाजश्च समूहः सन्ततिर्व्रजः ।व्यूहो निकायो निकुरो निकुरम्बं कदम्बकम् ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
पशूनां समजः संघः समाजो देहिनां स तु ।शुकानां शौकमित्यादिप्रत्ययैः स्यात्तदर्थकैः ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
सभा संसत्समाजश्चास्था गोष्ठी पर्षदा सह ।समितिः स्त्री तथास्थानं दैवज्ञगणकौ समौ ॥ १४६ ॥
अनुष्टुप्
genderपुंmasc.
समाजस्त्वन्यजन्तूनां निकायः समवृत्तिनाम् ।धान्यादिवृन्दे राशिः स्यादुत्करश्च करो विसत् (?) ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
असुरो वारणः कुञ्जः कुञ्जरः पीलुरित्यपि ।महामृगः शूर्पकर्ण समाजसिन्धुरः कपी ॥ २५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
genderपुंmasc.
सभा समज्या परिषत्संसच्च समितिः सदः ।गोष्ठ्यास्थानी समाजश्च पर्षत्सभ्याः समाजिकाः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
सभा संसत् समाजश्च समज्या समितिः सदः ।आस्थाऽऽस्थानं तथाऽऽस्थानी पर्षत् च परिषद्घटा ॥ ७४३ ॥
अनुष्टुप्
genderपुंmasc.
ग्रामो विषयशब्दोक्तभूतेन्द्रियगुणाद्गणे ।समजः स्यात् पशूनां वै समाजश्चान्यदेहिनाम् ॥ २५६८ ॥
अनुष्टुप्
genderपुंmasc.
समजः पशुवृन्दे स्यात् समाजोऽन्यसधर्मभिः ।उत्करः पुञ्जराशी तु कूटोऽस्त्री पुञ्जकेष्वपि ॥
अनुष्टुप्
genderपुंmasc.
सदस्ये तु पारिषद्य-पार्षद्यावथ संसदि ।परिषत्-पर्षदौ तुल्ये समज्या च समाजयुक् ॥ ९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderपुंmasc.
अनीकमस्त्री पटली मण्डली संहतिस्ततिः ।सधर्मिणां समाजः स्यात् पशूनां समजो गणः ॥ ८२९ ॥
अनुष्टुप्
genderपुंmasc.
पशूनां समजोऽन्येषां समाजो धीमतां सभा ।उद्भिज्जानां तु षण्डोऽस्त्री स्कन्धोऽश्वनरहस्तिनाम् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.