कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

यज्ञिय

yajñiyaवि · adj.

In 11 kośas: 21 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.830 · p. 34
हिंसार्थं कर्माभिचारः स्याद्यज्ञार्हं तु यज्ञियम् ॥ ८३० ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.27
दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम् ॥ २७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.98 · p. 259
परुर्नीलफलं चाथ चलपत्रश्च यज्ञियः ।शुचिबोधिक्षीरचैत्यश्राभ्यो द्व्यर्थो गजाशनः ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.106 · p. 260
स्यात्पर्कपर्वयोष्टिष्टी मशकी तु सदाफलः ।उदुम्बरः पुष्पशून्यो यज्ञियः सुप्रतिष्ठितः ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.80 · p. 414
द्वापरो यज्ञियः पुंसि क्लीबे कर्मयुगं कलिः ।तिष्यो झर्झरकोऽथैषां वर्षसंख्या क्रमादिमाः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.71 · p. 140
खरस्कन्धश्चाम्लफलो राजाह्वो फलनो वरः ।पलाशः किंशुकः किर्मी ब्रह्मवृक्षस्त्रिपर्णकः ॥त्रिवृन्तः कटुपर्णश्च वातपोथः समिद्वरः ।क्षारश्रेष्ठो रक्तपुष्पो यज्ञियश्च गणेरुकः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 184
नेपालाद्या इक्षुभेदा अथ बर्हिः कुशोऽस्त्रियौ ।कुथो दर्भो यज्ञियः स्यात्पवित्रं यज्ञभूषणम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.34 · p. 234
आर्त्विजीनस्त्वृत्विगर्हो यज्ञार्हो यज्ञियो मतः ।स सोम्यः सोमपानार्हस्त्रैवार्षिकधनो हि यः ।********माहिताग्निश्च साग्निकः ।अग्न्याहितोऽप्यथारम्भः उद्घातः प्रक्रमस्तथा ॥ ३४ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 235
बर्हिर्वितानमस्त्री स्या[99a]त्सत्रमिज्याथ यज्ञियम् ।यज्ञकर्मोचितमथ कुण्डपाय्यः ससोमकः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderविadj.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.92 · p. 52
बीजस्नेहो वातपोथो यज्ञियो ब्रह्मपादपः ।धवे भारोद्वहो गौरः शकटाख्यो धुरन्धरः ॥ ९२ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.377 · p. 202
मुञ्जस्तु यज्ञियो मेध्यो दृढत्वग्ब्रह्ममेखलः ।अथ बालतृणे शष्पं शुकं शालिकमङ्गुलम् ॥ ३७७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1384 · p. 219
अभिचारो हि हिंसार्थं कर्म यत् क्रियते च तत् ।स्याद्यज्ञयोग्यकार्यं वै यज्ञार्हं चापि यज्ञियम् ॥ १३८४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.296 · p. 21
कृतं सत्यं सत्ययुगं त्रेता यज्ञियमेव च ।द्वापरः पार्थनीयश्च (?) झर्झरः कर्मजः कलिः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.54 · p. 114
.....................स स्यादवभृथो यज्ञकर्मार्हं त्रिषु यज्ञियम् ।अथेष्टं क्रतुकर्म स्यात् क्रतौ दानादिकर्म च ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.668 · p. 85
कुशो मुनिः कुथो दर्भः क्लीबे बर्हिः पवित्रके ।मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वग्ब्रह्ममेखला ॥ ६६८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1187 · p. 146
दीक्षान्तोऽवभृथो यज्ञकर्मार्हं यज्ञियं त्रिषु ।भूमिः परिष्कृता वेदिः प्राग्वंशः प्राग्घविर्गृहात् ॥ ११८७ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1417 · p. 171
शितशूको दीर्घशुको यवो यज्ञिय इत्यपि ।यवे तु हरिते तोक्म आशुव्रीहिस्तु पाटलः ॥ १४१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव कालवर्गः Trikāṇḍaśeṣa 1.4.31 · p. 19
कृतं सत्ययुगं त्रेताऽग्नायी द्वापरयज्ञियौ ।कलिर्झर्झरकः कर्मयुगं पापं तु पातकम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.92 · p. 24
द्वापरे यज्ञियाग्नेयौ पुष्यो झईरकः कलिः ।त्रियुगं तु युगासारं द्व्यायोगं तु युगद्वयम् ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 झ (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.229 · p. 64
मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वक् ब्रह्ममेखलः ।उल्लूकस्तूलपो दर्भ ऊर्ध्वमूलः खरच्छदः ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.117 · p. 210
यज्ञियं यज्ञकर्मार्हे चक्षुष्यं चक्षुषे हितम् ।तत्तद्गात्रभवे दन्त्यं हस्त्यमोष्ठ्यमितीदृशाः ॥ ११७ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1466 · p. 175
यज्ञार्हः कृष्णसाराख्यमृगे त्रिर्यागयोग्यके ।यज्ञियस्तु पुमान् मुञ्जे यज्ञकर्मार्हके त्रिषु ॥ १४६६ ॥
अनुष्टुप्