कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अभिषव

abhiṣavaपुं · masc.

In 13 kośas: 17 synonym verses, 8 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.905 · p. 36
जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहूः ॥ ९०४ ॥नग्नहुर्मद्यबीजं च मद्यसंधानमासुतिः ।आसवोऽभिषवो मद्यमण्डकारोत्तमौ समौ ॥ ९०५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.85
स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.68
सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.318 · p. 38
धान्याम्लमारनालं सन्धानं काञ्जिकं च सौवीरम् ।अभिषवमवन्तिसोमं तुषोदकं शुक्तमिच्छन्ति ॥ ३१८ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.58 · p. 75
विष्णुपर्यायवचनो मन्युस्तोमश्च संस्तरः ।प्रयाग आहवश्चैव मिष्टश्चाभिषवो हवः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.65 · p. 75
स्त्री सुत्या सवनं क्लीबे स्यात्पुंस्यभिषवः पुनः ।आतिथ्याद्या इष्टयः स्युर्यज्ञान्तोऽवभृथः पुमान् ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 228
भवेदभिषवः स्नानं मज्जनं च समार्थके ।जेन्ताकस्तु भवेत्सेको य उष्णोदकनिर्मितः ॥विलेपनं त्वङ्गरागो वर्णको न स्त्रियामथ ।गात्रानुलेपनी वर्तीरनुबोधः प्रबोधनम् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.44 · p. 235
दीक्षान्तोऽवभृथो यज्ञे सुत्वा त्वभिषुतस्त्रिषु ।स्वाध्यायः स्या[99b]ज्जपः सुत्याभिषवः सवनं च तत् ।समाजस्तु सभा-संसद्धटा-समिति-पर्षदः ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.64 · p. 300
नग्नहुश्च पुमांसौ द्वौ मद्यबीजं नपुंसके ।आसुतिर्मद्यसंधा * [न]मासवोऽभिषवः समौ ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.237 · p. 55
सोमाभिलाषमानुष्यानुष्ठानदिवसे स्मृता ।सुत्याभिषव आनायः सवनं च निषेवणम् ॥ २३७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.624 · p. 107
स्यात्सुरासंधानकरी कल्केधा(था?)भिषवः पुमान् ।नन्दनं(संधानं?) च सुरापाने मद्येनासवमिष्यते ॥ ६२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1523 · p. 242
आसवोऽभिषवो मद्यसन्धानमाऽऽसुतिश्च वै ।अर्कसम्पादनैः कार्यैः मद्यनिर्माणिका क्रिया ॥ १५२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.26 · p. 112
हवोऽभिषवहोमौ च हवनं मह इत्यपि ।नृपाध्वरो राजसूयः क्रतुराजः क्रतूत्तमः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.72 · p. 158
भेदाः स्मरासवो वीरा मेदको जगलो गलः ।सन्धानं स्यादभिषवः सन्धानी सन्धिकेत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1198 · p. 147
स्यात् सुत्याभिषवो दर्शपूर्णमासौ क्रतौ पृथक् ।पक्षान्तयोरनूचानः साङ्गाधीतश्रुतिर्गुरोः ॥ ११९८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1559 · p. 188
कारोत्तरः सुरामण्डः किण्वं पुंस्येव नग्नहूः ।आसूतिर्मधुसंधानमासवाभिषवावपि ॥ १५५९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.51 · p. 140
जगलोऽथ सनिः सारो मर्कसो मासरोऽपि च ।आसूतिर्मद्यसन्धानमासवोऽभिषवोऽपि च ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास वार्धश्लोकः Dharaṇikośa 28.2.23 · p. 208
अभिषवः स्मृतः स्नाने मद्यसंधानयज्ञयोः ।पारसवः शस्त्रभेदे शूद्रापुत्रे द्विजोद्भवे ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable); pāda 3, syllable 3 स (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.32 · p. 363
ऽभिषवस्तु यज्ञे ॥ ३२ ॥
इन्द्रवज्राmetre not read in every line
meaningsयज्ञ
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.33 · p. 363
स्यान्मद्यसंधानक आप्लवे चाथोपप्लवो विप्लवे राहुजन्ये ।परिप्लवस्त्वाकुललोलयोः स्या-त्कुसीलवः स्यान्नटयाचकार्थः ॥ ३३ ॥
उपेन्द्रवज्राmetre not read in every line
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.6 · p. 7
कुले त्वभिजनो जन्मभूमौ चाभिषवः पुनः ।सवने मद्यसन्धाने (स्नाने चाथाभियो)गवाक् ॥ ६ ॥
अनुष्टुप्metre not read in every line
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.37 · p. 288
अनुभावः प्रभावे च निश्चये भावबोधके ।भवेदभिषवः स्नाने मद्यसन्धानयज्ञयोः ॥उपप्लवः स्यादुत्पाते विप्लवे च विधुन्तुदे ।जलबिल्वः पञ्चगुप्ते कर्कटे जलचत्वरे ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2198 · p. 266
सवने मद्यसंधाने स्नाने चाभिषवस्त्रये ।अभिग्रहोऽभियोगे स्यादभितोग्रहणेऽपि च ॥ २१९८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.412 · p. 238
यागे च मद्यसन्धाने स्नाने चाभिषवः पुमान् ।मृतावसत्त्वे चाभावः स्याद्रजः पुष्पमार्तवम् ॥ ४१२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.11 · p. 265
स्नाने मद्यस्य सन्धानेऽभिषवः सवनेऽपि च ।अभिग्रहोऽभियोगे च समन्ताद्ग्रहणेपि च ॥ ११ ॥
अनुष्टुप्

अभिषव as a meaning in nānārtha verses