कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धारणा

dhāraṇāस्त्री · fem.

In 15 kośas: 19 synonym verses, 5 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.37 · p. 7
धारणा तु क्वचिद्ध्येये चित्तस्य स्थिरबन्धनम् ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.744 · p. 31
प्रक्रिया त्वधिकारोऽथ मर्यादा धारणा स्थितिः ।संस्थाऽपराधस्तु मन्तुर्व्यलीकं विप्रियागसी ॥ ७४४ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.41
शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः ।
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.88 · p. 74
अनुभूरुपलब्धिश्च भूतिश्चित् ज्ञप्तिसम्भवा ।ज्ञानं च बोधनं जानं मेधा धीर्धारणा क्षमा ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.171 · p. 87
प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ।धारणा स्त्री क्वचिद्धेये चित्तस्य स्थिरबन्धनम् ॥ १७१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.88 · p. 240
उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् ।हृदि साक्षात्कृतिर्ध्यानं धारणा चित्तबन्धनम् ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 250
[111a]स्थाने वरं चाव्ययानि मर्यादा धारणा स्थितिः ।संस्था चाज्ञा तु निर्द्देशो निदेशोऽप्यववादवत् ॥ ७६ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.363 · p. 147
साम्प्रतं तूचितं युक्तं योग्ये द्वे वाच्यलिङ्गगे ।मर्यादा स्थितिसंस्थे तु धारणापि निगद्यते ॥ ३६३ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.271 · p. 59
आज्ञायामवधानः(वादः?) स्यान्निर्देशः शिष्ट इत्यपि ।मर्यादायां स्थितिः संस्था धारणाथापराधने ॥ २७१ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.100 · p. 29
अवधिः पूर्णता सीमा मर्यादा धारणा स्थितिः ।वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः किंवदन्त्यपि ॥ १०० ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.135 · p. 33
उपवासश्चोपवस्तं व्रतं नियमपालनम् ।समाधिर्धारणा ध्यानं प्रणिधानं च चिन्तनम् ॥ १३५ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.61 · p. 10
क्वचिद्ध्येये तु चित्तस्य स्थिरबन्धो हि धारणा ।ध्यानं तद्विषये चैकप्रत्ययसन्ततिर्मतम् ॥ ६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1039 · p. 190
मर्यादा धारणा संस्था स्थितिः स्यान्न्यायसंस्थितिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.206 · p. 125
शिष्टिश्च शास्तिरादेशः स्यादादेशनमित्यपि ।मर्यादा धारणा संस्था संस्थितिः स्थितिरित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.279 · p. 38
धारणा ब्रह्मणि ध्येये चित्तस्य स्थिरबन्धनम् ।समाधिस्तु समावस्था जीवात्मपरमात्मनोः ॥ २७९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1280 · p. 156
समौ विश्वासविश्रम्भावुपेक्षा त्ववधीरणा ।मर्यादाधारणासंस्थाव्यवस्थास्थितयः समाः ॥ १२८० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.231 · p. 102
प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ।धारणा तु क्वचिद्ध्येये चित्तस्य स्थिरबन्धनम् ॥ २३१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.15 · p. 124
न्यायोऽक्षो व्यवहारोऽथ संप्रश्नः संप्रधारणम् ।समर्थनं च संस्था तु मर्यादा धारणा स्थितिः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.40 · p. 162
मेढी तु पादिकाशीर्षे स्थूणाशीर्षे शिली शिला ।नासा धारकदारु स्यात्पालिकाष्ठं तु धारणा ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.982 · p. 133
धाणका धारणा तु स्त्री चित्तस्य स्थिरबन्धने ।क्वचिद्ध्येये वस्तुनि स्याद् योगिनां हृदयस्थिते ॥ ९८२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.41 · p. 210
धारणी नाडिकायाञ्च बृद्धोक्तमन्त्रभिद्यपि ।धारणा स्यात्तु योगाङ्गे न पुमांस्तु विधारणे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्त (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2107 · p. 255
धारणे मानभेदे च धरणं धरणी मही ।धावनं गमने शुद्धौ स्थितौ विश्वे च धारणा ॥ २१०७ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2108 · p. 255
योगाङ्गेऽथ वृषे शुभ्रे धवलो धवली गवि ।धनदो दातरि श्रीदे नभसो व्योम्नि सागरे ॥ २१०८ ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.132 · p. 136
बुद्धमन्त्रे नाडिकायां धारणाऽथ च मज्जने ।निर्वाणं निवृतौ मोक्षे प्रघणोऽस्त्रगृहांशयोः ॥ १३२ ॥
अनुष्टुप्

धारणा as a meaning in nānārtha verses

  • कोषकल्पतरु धृतिभृतिस्तु मूल्ये भरणे क्षितिस्तु स्थाने निवासे भुवि च क्षयेऽपि । धृतिस्तु योगान्तरवृत्तभेद- संतोषधैर्याध्वरधारणासु ॥ ५० ॥ Koṣakalpataru 6.16.50
  • तन्त्राभिधान धधिषणा धा(ध)रणा(णी) चिन्ता(त्रा) नेत्रयुग्मं प्रियो मतिः । पीतवासास्त्रिवर्णा च धाता धर्मप्लवङ्गमः ॥ ११४ ॥ Tantrābhidhāna 2.36.114
  • त्रिकाण्डशेष मर्यादागर्वे शुक्रेऽथ माकन्द्यामलक्यां नाऽम्रपादपे । मर्यादा धारणासीम्नोर्महानादो गजेऽपि च ॥ २१० ॥ Trikāṇḍaśeṣa 3.3.210