कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संस्था

saṃsthāस्त्री · fem.

In 14 kośas: 16 synonym verses, 9 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.324 · p. 17
मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥ ३२३ ॥पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् ।दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥ ३२४ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.744 · p. 31
प्रक्रिया त्वधिकारोऽथ मर्यादा धारणा स्थितिः ।संस्थाऽपराधस्तु मन्तुर्व्यलीकं विप्रियागसी ॥ ७४४ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.41
शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.628 · p. 71
निधनं नाशो मृत्युर्मरणं पञ्चत्वमत्ययः कालः ।संस्था स्याद्दिष्टान्तो निमीलनं दीर्घनिद्रा च ॥ ६२८ ॥
आर्या
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.60 · p. 75
इष्टिः संस्था पुमान्मेधः सवनं षण् भिदस्य च ।राजसूयं वाजपेयं पुंसि क्लीबेऽथ तस्य च ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.94 · p. 99
संस्था स्थितिश्च मर्यादा सीमा मन्तुस्तु पुंस्ययम् ।अपराधोप्यलीको स्त्री स्यात् क्लीबे विप्रियागसी ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 250
[111a]स्थाने वरं चाव्ययानि मर्यादा धारणा स्थितिः ।संस्था चाज्ञा तु निर्द्देशो निदेशोऽप्यववादवत् ॥ ७६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.71 · p. 269
स्युः कालधर्म-प्रलयात्ययान्त-दिष्टान्त-नाशाः परलोकयात्रा ।स्याद्दीर्घनिद्रा च मृतिश्च संस्थामृत्युर्द्वयोः स्यादपि पञ्चता स्त्री ॥ ७१ ॥
इन्द्रवज्रा
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.363 · p. 147
साम्प्रतं तूचितं युक्तं योग्ये द्वे वाच्यलिङ्गगे ।मर्यादा स्थितिसंस्थे तु धारणापि निगद्यते ॥ ३६३ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.214 · p. 52
पञ्चमो बलिहरणमिति यज्ञाः प्रकीर्तिताः ।सभायां समितिः संस्था परिषत्संसदित्यपि ॥ २१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.271 · p. 59
आज्ञायामवधानः(वादः?) स्यान्निर्देशः शिष्ट इत्यपि ।मर्यादायां स्थितिः संस्था धारणाथापराधने ॥ २७१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.476 · p. 59
मृत्युः कालो मृतिः संस्था कालधर्मो निमीलनम् ।पञ्चत्वमवसानं च तथा निधनमत्ययः ॥ ४७६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1039 · p. 190
मर्यादा धारणा संस्था स्थितिः स्यान्न्यायसंस्थितिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.206 · p. 125
शिष्टिश्च शास्तिरादेशः स्यादादेशनमित्यपि ।मर्यादा धारणा संस्था संस्थितिः स्थितिरित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1280 · p. 156
समौ विश्वासविश्रम्भावुपेक्षा त्ववधीरणा ।मर्यादाधारणासंस्थाव्यवस्थास्थितयः समाः ॥ १२८० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.15 · p. 124
न्यायोऽक्षो व्यवहारोऽथ संप्रश्नः संप्रधारणम् ।समर्थनं च संस्था तु मर्यादा धारणा स्थितिः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.170
शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.819 · p. 94
व्यवस्थायां च संस्था स्यात्संवित्तावपि वेदना ।यात्रा स्यादनुवृत्तौ च संज्ञायां च समाह्वयः ॥ ८१९ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास थार्धश्लोकः Dharaṇikośa 16.2.1 · p. 89
आस्थामालम्बनं विद्यादास्था चास्थानयत्नयोः ।संस्था तु प्रणिधौ नाशे स्थितिसादृश्ययोरपि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ थान्ताः Koṣakalpataru 6.18.99 · p. 231
आस्थावलम्बस्थितियत्नवाञ्छा-सूक्ता च संस्था स्थितिनाशतौल्ये ।व्यक्तौ च यूथं तु गणे तिरश्चांबृंहेऽस्त्रियां स्त्री कुसुमप्रभेदे ॥ ९९ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.110 · p. 19
श्रोणिः कट्यामुपस्थेऽथ संस्था स्यादाकृतौ मृतौ ।व्यवस्थायां समाप्तौ च प्रणिधावपि केचन ॥ ११० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश थान्ताः Śabdaratnāvalī 7.17.7 · p. 227
वीथिः पंक्तौ पुंसि पथे गृहाङ्गे रूपकान्तरे ।संस्थो मृतावस्थितयोः स्त्रियान्तु स्थितिनाशयोः ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2024 · p. 246
मृतिव्यवस्थयोः संस्था सभा तु द्यूतसंसदोः ।संवित् संकेतसमयप्रतिज्ञाचारनामसु ॥ २०२४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.200 · p. 160
पुंसि स्त्रियां च षड्ग्रन्थः करञ्जवचयोः क्रमात् ।सिद्धार्थः सर्षपे बुद्धे संस्था स्थितिविनाशयोः ॥ २०० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.43 · p. 223
संज्ञार्कभार्या चैतन्यं हस्ताद्यैः सूचनाभिधा ।संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु ॥ ४३ ॥
अनुष्टुप्