कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अपवाद

apavādaपुं · masc.

In 13 kośas: 11 synonym verses, 5 as a nānārtha head word, 19 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.271 · p. 15
स्यादवर्ण उपक्रोशे वादो निःपर्यपात्परः ।गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥ २७१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.13
अवर्णाक्षेपनिर्वादपरीवादापवादवत् ।उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.148 · p. 18
अपवाद उपक्रोशो निर्वादावर्णवादपरिवादाः ।एकार्थाः कथ्यन्ते गर्हा निन्दा जुगुप्सा च ॥ १४८ ॥
आर्या
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.41 · p. 69
विकल्प(त्थ?)नं मृषाश्लाघा निन्दा कुत्सा च धिक्कृतिः ।जुगुप्सा गर्ह[45a]णा क्षेपोऽपवादोऽवर्ण इत्यपि ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.188 · p. 28
परिवादापवादौ च निर्वादावर्णधिक्क्रियाः ।कुत्साक्रोशौ तथा गालिं विरुद्धवचनं विदुः ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.127 · p. 32
उपक्रोशोऽवर्णवादः कौलीनं वचनीयता ।जुगुप्सा गर्हणा निन्दा निर्वादश्चापवादवत् ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.392 · p. 50
उपक्रोशोऽपवादश्च गर्हा गर्हश्च गर्हणा ।जुगुप्सनं जुगुप्सा च निन्दा कुत्सा च धिक्क्रिया ॥ ३९२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.379 · p. 27
अपक्रोशोऽपवादः स्यादववादो विकुत्सनम् ।अगम्यागमनं युक्तं तवेत्यादिकभाषणम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.108 · p. 186
निष्पर्यपात्परो वादो, जुगुप्सा च जुगुप्सनम् ।गर्हणा गर्हणं गर्हो, रतशापे तु क्षारणा ॥ १०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.33 · p. 33
अवर्णवादो निर्वादोऽप्यपवादो विरूक्षणम् ।क्षारणं गर्हणं निन्दा जुगुप्सागालिकुत्सनाः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.47 · p. 107
अपराधो मन्तुरेनः खसृमं विप्रियागसी ।अपवादस्तु निर्देशो निदेशः शासनं तथा ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.172
अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास दपादः Dharaṇikośa 17.1.7 · p. 93
प्रियंवदः खेचरे च महामदो गजेऽपि च ।विशारदो बुधेऽत्रस्ते शतह्रदा वज्रविद्युतोः ।अपवादौ तु निन्दाज्ञे जनपदो जनदेशयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.2 · p. 6
अपदेशस्तु लक्षे स्यान्निमित्तव्याजयोरपि ।अपवादस्तु निन्दायामाज्ञायां च द्वयोरपि ॥ २ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2200 · p. 266
अपवादौ तु निन्दाज्ञे गुह्यगूढाववस्करौ ।अन्तेवासी तु चण्डाले शिष्यनापितयोरपि ॥ २२०० ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.14 · p. 266
नृपरक्षिष्वनीकस्थो हस्तिशिक्षाविचक्षणे ।अपवादौ तु निन्दाज्ञे स्तुतिस्नेहावपह्नवौ ॥ १४ ॥
अनुष्टुप्

अपवाद as a meaning in nānārtha verses