कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आबाधा

ābādhāस्त्री · fem.

In 4 kośas: 4 synonym verses.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.626 · p. 71
यातना कारणा प्रोक्ता कारा बन्धनमुच्यते ।आबाधा वेदना दुःखमर्तिः पीडा व्यथा तथा ॥ ६२६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.48 · p. 6
क्लीबे दुःखमकं कलाकल अमानस्याऽऽमनस्ये तथा-ऽऽभीलं स्याद्गहनं प्रगाधमुदितं कष्टं च कृच्छ्रं समम् ।तृप्रः सूतिजकक्षसत्रमसुखं पुंस्याधिरर्त्तिः स्त्रियाम्आबाधाऽपि च वेदना निगदिता पीडा च बाधा व्यथा ॥ ४८ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.30 · p. 38
पीडा कष्टं व्यथा दुःखं अर्तिरार्तिश्च पीडनम् ।आबाधा बाधनं बाधा कृच्छ्रं दुःखं प्रसूतिजम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.5 · p. 249
शान्तं तालव्यदन्त्याद्यं भद्रं भन्द्रमसौख्यके ।तृप्तं दृप्रं बाधा बाध आबाधा चाऽमनस्यवत् ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बा (wrong syllable)
genderस्त्रीfem.